Book Title: Karmprakrutau Uday
Author(s): Yashovijay, Malaygiri
Publisher: ZZZ Unknown
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवगतिप्रायोग्या, न च करणापर्याप्तः सासादनो देवगतिप्रायोग्यां बध्नाति ततः शेषा उदया नोपपद्यन्ते । तत्र मनुष्यमधिकृत्य त्रिंशदुदये द्वे अपि ९२-८८ सत्तास्थाने । तिर्यक्पश्चेन्द्रियानधिकृत्याष्टाशीतिरेव, द्विनवतेरुपशम श्रेणीतः प्रतिपात एव लाभात्, तिरवां चोपशमश्रेण्यसंभवात् । एकत्रिंशदुदये त्वष्टाशीतिरेव यतोऽसौ तिर्यक्पञ्चन्द्रियाणामेव, न च तेषां द्विनवतिर्घटते । एकोनत्रिंशतं तिर्यपञ्चेन्द्रियमनुष्यप्रायोग्यां बघ्नतः सप्ताप्युदयस्थानानि, तत्रैकेन्द्रिय विकलेन्द्रिय तिर्यक्पञ्चेन्द्रियमनुष्यदेवनैरयिकाणां सासादनानां स्वस्वोदयस्थानेषु वर्त्तमानानामेकमेव सत्तास्थानमष्टाशीतिः । नवरं मनुष्यस्य त्रिंशदुदये वर्त्तमानस्योपशम श्रेणीतः प्रतिपततः सासादनस्य द्विनवतिः । एवं त्रिंशद्वन्धकस्यापि वाच्यम् ।
अथ सम्यग्मिथ्यादृष्टेर्बन्धोदयसत्तास्थानान्यभिधीयन्ते तत्र सम्यग्मिथ्यादृष्टे बन्धस्थाने अष्टाविंशतिरेकोनत्रिंशच्च । तत्र तिर्यग्मनुष्याणां सम्यग्मिथ्यादृष्टीनां देवगतिप्रायोग्यमेव बन्धमायाति, ततस्तेषामष्टाविंशतिः, तत्र भङ्गा अष्टौ । एकोनत्रिंशन्मनुष्यगतिप्रायोग्यं बध्नतां देवनैरयिकाणां तत्राप्यष्टौ भङ्गाः । ते चोभयत्रापि स्थिरास्थिरशुभाशुभयशः कीर्त्त्य यशः कीर्त्तिपदैः, शेषास्तु परावर्त्तमानाः | प्रकृतयः शुभा एव सम्यग्मिथ्यादृष्टीनां वन्धमायान्ति, ततः शेषभङ्गा न प्राप्यन्ते । त्रीण्युदयस्थानानि - एकोनत्रिंशत्रिंशदेकत्रिंशच्च । तत्रैकोनत्रिंशति देवानधिकृत्याष्टौ नैरयिकानधिकृत्य चैक इति सर्वसंख्यया नत्र भङ्गाः । त्रिंशति तिर्यक् पञ्चेन्द्रियानधिकृत्य सर्वपर्याप्तिपर्याप्तयोग्यानि द्विपञ्चाशदधिकान्येकादश शतानि १९५२ | मनुष्यानधिकृत्यापि तावन्त्येव ११५२ भङ्गाः । सर्वसंख्यया त्रयो| विंशतिशतानि चतुरुत्तराणि २३०४ । एकत्रिंशदुदयस्तिर्यक्पञ्चेन्द्रियानधिकृत्य, तत्र भङ्गा द्विपञ्चाशदधिकान्येकादश शतानि ११५२ । सर्वोदयस्थान भङ्गाचतुस्त्रिंशच्छतानि पञ्चषष्ट्यधिकानि ३४६५ । द्वे सत्तास्थाने - द्विनवतिरष्टाशीतिश्चेति । अथ संवेध उच्यते - सम्य
For Private and Personal Use Only
दिल

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319