Book Title: Karmprakrutau Uday
Author(s): Yashovijay, Malaygiri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 282
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 20 HOIGSEDITOMERGENDS | तत्र मिथ्यादृष्टौ माम्नः षड् बन्धस्थानानि-त्रयोविंशतिः पञ्चविंशतिः षड्विंशतिरष्टाविंशतिरेकोनविंशत्रिंशञ्चेति । तत्रापर्याप्तकेन्द्रियप्रायोग्य बघ्नतस्त्रयोविंशतिः,तस्यां च बध्यमानायां बादरसूक्ष्मप्रत्येकसाधारणैश्चत्वारो भङ्गाः । पर्याप्तकेन्द्रियप्रायोग्यमपर्याप्तद्वित्रिचतुःपश्चेन्द्रियतियङ्मनुष्यप्रायोग्यं च बध्नतः पञ्चविंशतिः। तत्र पर्याप्त केन्द्रियप्रायोग्यायां पञ्चविंशतौ बध्यमानायां भङ्गा विंशतिः। अपर्याप्तद्वीन्द्रियादिप्रायोग्यायां तु बध्यमानायां प्रत्येकमेकैको भङ्ग इति सर्वसंख्यया पञ्चविंशतिः। पर्याप्तैकेन्द्रियप्रायोग्यं बध्नतः पदविंशतिः, तस्यां च बध्यमानायां भङ्गाः षोडश । देवगतिप्रायोग्यं नरकगतिप्रायोग्यं च वध्नतोऽष्टाविंशतिः, तत्र देवगतिप्रायोग्यायामष्टाविंशतावष्टौ भङ्गाः, नरकगतिप्रायोग्यायां चैक इति सर्वसंख्यया नव । पर्याप्तद्वित्रिचतुरिन्द्रियतिर्यपश्चेन्द्रियमनुष्यप्रायोग्य बध्नत एकोनत्रिंशत् । तत्र पर्याप्तद्वित्रिचतुरिन्द्रियप्रायोग्यायामेकोनविंशति बध्यमानायां प्रत्येकमष्टौ भङ्गाः। तिर्यक्पञ्चेन्द्रियप्रायोग्यायां षट्चत्वारिंशच्छतान्यष्टाधिकानि ४६०८ । मनुष्यगतिप्रायोग्यायामप्येतावन्त एव भङ्गाः । सर्वसंख्यया चत्वारिंशदधिकानि द्विनव तिशतानि ९२४० । देवगतिप्रायोग्या त्वेकोनत्रिंशत्तीर्थकरनामसहितेति मिथ्यादृष्टेन बन्धमायाति । पर्याप्तद्वित्रिचतुरिन्द्रियतियपचेन्द्रियप्रायोग्य बनतास्त्रिंशत् , तत्र पर्याप्तद्वित्रिचतुरिन्द्रियप्रायोग्यायां त्रिंशति बध्यमानायां प्रत्येकमष्टौ भङ्गाः । तिर्यपञ्चन्द्रिय-11 प्रायोग्यायां त्वष्टाधिकानि पदचत्वारिंशच्छतानि ४६०८ । सर्वसंख्यया द्वात्रिंशदुत्तराणि षट्चत्वारिंशच्छतानि ४६३२। या च मनुष्यगतिप्रायोग्या जिननामसहिता त्रिंशत, या च देवगतिप्रायोग्याऽऽहारकद्विकसहिता ते उभे अपि मिथ्यादृष्टेन बन्धमायातः । तथा मिथ्यादृष्टेनवोदयस्थानानि, तद्यथा-एकविंशतिश्चतुर्विंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिरष्टाविंशतिरेकोनविंशत्रिंश देकत्रिंशत् । एतानि सर्वाण्यपि नानाजीवापेक्षया यथा प्रागुक्तानि तथाऽत्रापि वाच्यानि, केवलमाहारकसंयतानां वैक्रियसयतानां केव & && For Private and Personal Use Only

Loading...

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319