SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवगतिप्रायोग्या, न च करणापर्याप्तः सासादनो देवगतिप्रायोग्यां बध्नाति ततः शेषा उदया नोपपद्यन्ते । तत्र मनुष्यमधिकृत्य त्रिंशदुदये द्वे अपि ९२-८८ सत्तास्थाने । तिर्यक्पश्चेन्द्रियानधिकृत्याष्टाशीतिरेव, द्विनवतेरुपशम श्रेणीतः प्रतिपात एव लाभात्, तिरवां चोपशमश्रेण्यसंभवात् । एकत्रिंशदुदये त्वष्टाशीतिरेव यतोऽसौ तिर्यक्पञ्चन्द्रियाणामेव, न च तेषां द्विनवतिर्घटते । एकोनत्रिंशतं तिर्यपञ्चेन्द्रियमनुष्यप्रायोग्यां बघ्नतः सप्ताप्युदयस्थानानि, तत्रैकेन्द्रिय विकलेन्द्रिय तिर्यक्पञ्चेन्द्रियमनुष्यदेवनैरयिकाणां सासादनानां स्वस्वोदयस्थानेषु वर्त्तमानानामेकमेव सत्तास्थानमष्टाशीतिः । नवरं मनुष्यस्य त्रिंशदुदये वर्त्तमानस्योपशम श्रेणीतः प्रतिपततः सासादनस्य द्विनवतिः । एवं त्रिंशद्वन्धकस्यापि वाच्यम् । अथ सम्यग्मिथ्यादृष्टेर्बन्धोदयसत्तास्थानान्यभिधीयन्ते तत्र सम्यग्मिथ्यादृष्टे बन्धस्थाने अष्टाविंशतिरेकोनत्रिंशच्च । तत्र तिर्यग्मनुष्याणां सम्यग्मिथ्यादृष्टीनां देवगतिप्रायोग्यमेव बन्धमायाति, ततस्तेषामष्टाविंशतिः, तत्र भङ्गा अष्टौ । एकोनत्रिंशन्मनुष्यगतिप्रायोग्यं बध्नतां देवनैरयिकाणां तत्राप्यष्टौ भङ्गाः । ते चोभयत्रापि स्थिरास्थिरशुभाशुभयशः कीर्त्त्य यशः कीर्त्तिपदैः, शेषास्तु परावर्त्तमानाः | प्रकृतयः शुभा एव सम्यग्मिथ्यादृष्टीनां वन्धमायान्ति, ततः शेषभङ्गा न प्राप्यन्ते । त्रीण्युदयस्थानानि - एकोनत्रिंशत्रिंशदेकत्रिंशच्च । तत्रैकोनत्रिंशति देवानधिकृत्याष्टौ नैरयिकानधिकृत्य चैक इति सर्वसंख्यया नत्र भङ्गाः । त्रिंशति तिर्यक् पञ्चेन्द्रियानधिकृत्य सर्वपर्याप्तिपर्याप्तयोग्यानि द्विपञ्चाशदधिकान्येकादश शतानि १९५२ | मनुष्यानधिकृत्यापि तावन्त्येव ११५२ भङ्गाः । सर्वसंख्यया त्रयो| विंशतिशतानि चतुरुत्तराणि २३०४ । एकत्रिंशदुदयस्तिर्यक्पञ्चेन्द्रियानधिकृत्य, तत्र भङ्गा द्विपञ्चाशदधिकान्येकादश शतानि ११५२ । सर्वोदयस्थान भङ्गाचतुस्त्रिंशच्छतानि पञ्चषष्ट्यधिकानि ३४६५ । द्वे सत्तास्थाने - द्विनवतिरष्टाशीतिश्चेति । अथ संवेध उच्यते - सम्य For Private and Personal Use Only दिल
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy