Book Title: Karmprakrutau Uday
Author(s): Yashovijay, Malaygiri
Publisher: ZZZ Unknown
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तैश्चत्वारो गुणिता जाताश्चतुःषष्टिः, ते पूर्वराशौ क्षिप्यन्ते, जातानि द्वादश शतानि षोडशोत्तराणि । एवं मिश्रादिष्वपि पूर्वोक्तानुसारेगावगन्तव्यम् । अथ पदसङ्ख्या योगगुणिता भाव्यते तत्र मिथ्यादृष्टेरष्टषष्टिः पदधुत्रकाः, ते त्रयोदशभियोगैर्गुण्यन्ते, जातान्यष्टौ शतानि चतुरशीत्यधिकानि ८८४ । सासादने द्वात्रिंशत् पदधुत्रकाः, तेऽपि त्रयोदशभियागेर्गुण्यन्ते, जातानि षोडशाधिकानि चत्वारि शतानि ४१६ । मिश्र द्वात्रिंशत् पदध्रुवकाः, ते दशभियोगैर्गुण्यन्ते, जातानि विंशानि त्रीणि शतानि ३२० । अविरतसम्यग्दृष्टौ षष्टिः पदध्रुवकाः, ते त्रयोदशभियोर्गेर्गुण्यन्ते, जातानि सप्त शतान्यशीत्यधिकानि ७८० । देशविरते द्विपश्चाशत्पदध्रुवकाः, ते चैकादशभियोगेर्गुण्यन्ते, जातानि पञ्च शतानि द्विसप्तत्यधिकानि ५७२ । प्रमत्तसंयतेऽपि चतुश्चत्वारिंशत्पदध्रुवकाः, ते त्रयोदशभियोगैर्गुण्यन्ते, जातानि पञ्च शतानि द्विसप्तत्यधिकानि ५७२ । अप्रमत्त संयतेऽपि चतुश्चत्वारिंशत्पदधुत्रकाः, ते चैकादशभियों गेर्गुण्यन्ते जातानि चत्वारि शतानि चतुरशीत्यधिकानि ४८४ । अपूर्वकरणे विंशतिः पदध्रुवकाः, ते नवभियोगैर्गुण्यन्ते, जातमशीत्यधिकं शतं १८० । सर्वसङ्ख्या द्विचत्वारिंशच्छतान्यष्टाधिकानि ४२०८ । एतानि चतुर्विंशत्या गुण्यन्ते, जातं द्विनवत्यधिकनवशतोत्तरं लक्षं १००९९२ । तथा द्विकोदयपदानि चतुर्विंशतिः, एकोदयपदानि च पञ्च, सर्वमीलने एकोनत्रिंशत्, ते नवभियोगेर्गुण्यन्ते, जातमेकषष्ट्यधिकं शतद्वयं तच्च पूर्वराशौ क्षिप्यते, ततो जातमेकं लक्षं द्वादश च शतानि त्रिपश्चाशदधिकानि १०१२५३ । अस्माच्च राशेरसंभवीनि पदानि शोध्यन्ते, तद्यथा-सप्तोदय एकः अष्टोदयौ द्वौ नवोदयश्चैक इत्येतेऽनन्तानुबन्ध्युदयरहिताः । तत्र सर्वसङ्ख्यया द्वात्रिंशत्पदध्रुवकाः, ते वैक्रियमिश्रादियोगत्रये न संभवन्ति, हेतुः प्रागेवोक्तः, ततो द्वात्रिंशत्रिभिर्गुणिता जाता षण्णवतिः, ते चतुि शत्या गुण्यन्ते, जातानि त्रयोविंशतिशतानि चतुरुत्तराणि २३०४ । एतावन्ति पदानि मिथ्यादृष्टेरसंभवीनि । तथा सासादनस्य वैकि
For Private and Personal Use Only

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319