SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तैश्चत्वारो गुणिता जाताश्चतुःषष्टिः, ते पूर्वराशौ क्षिप्यन्ते, जातानि द्वादश शतानि षोडशोत्तराणि । एवं मिश्रादिष्वपि पूर्वोक्तानुसारेगावगन्तव्यम् । अथ पदसङ्ख्या योगगुणिता भाव्यते तत्र मिथ्यादृष्टेरष्टषष्टिः पदधुत्रकाः, ते त्रयोदशभियोगैर्गुण्यन्ते, जातान्यष्टौ शतानि चतुरशीत्यधिकानि ८८४ । सासादने द्वात्रिंशत् पदधुत्रकाः, तेऽपि त्रयोदशभियागेर्गुण्यन्ते, जातानि षोडशाधिकानि चत्वारि शतानि ४१६ । मिश्र द्वात्रिंशत् पदध्रुवकाः, ते दशभियोगैर्गुण्यन्ते, जातानि विंशानि त्रीणि शतानि ३२० । अविरतसम्यग्दृष्टौ षष्टिः पदध्रुवकाः, ते त्रयोदशभियोर्गेर्गुण्यन्ते, जातानि सप्त शतान्यशीत्यधिकानि ७८० । देशविरते द्विपश्चाशत्पदध्रुवकाः, ते चैकादशभियोगेर्गुण्यन्ते, जातानि पञ्च शतानि द्विसप्तत्यधिकानि ५७२ । प्रमत्तसंयतेऽपि चतुश्चत्वारिंशत्पदध्रुवकाः, ते त्रयोदशभियोगैर्गुण्यन्ते, जातानि पञ्च शतानि द्विसप्तत्यधिकानि ५७२ । अप्रमत्त संयतेऽपि चतुश्चत्वारिंशत्पदधुत्रकाः, ते चैकादशभियों गेर्गुण्यन्ते जातानि चत्वारि शतानि चतुरशीत्यधिकानि ४८४ । अपूर्वकरणे विंशतिः पदध्रुवकाः, ते नवभियोगैर्गुण्यन्ते, जातमशीत्यधिकं शतं १८० । सर्वसङ्ख्या द्विचत्वारिंशच्छतान्यष्टाधिकानि ४२०८ । एतानि चतुर्विंशत्या गुण्यन्ते, जातं द्विनवत्यधिकनवशतोत्तरं लक्षं १००९९२ । तथा द्विकोदयपदानि चतुर्विंशतिः, एकोदयपदानि च पञ्च, सर्वमीलने एकोनत्रिंशत्, ते नवभियोगेर्गुण्यन्ते, जातमेकषष्ट्यधिकं शतद्वयं तच्च पूर्वराशौ क्षिप्यते, ततो जातमेकं लक्षं द्वादश च शतानि त्रिपश्चाशदधिकानि १०१२५३ । अस्माच्च राशेरसंभवीनि पदानि शोध्यन्ते, तद्यथा-सप्तोदय एकः अष्टोदयौ द्वौ नवोदयश्चैक इत्येतेऽनन्तानुबन्ध्युदयरहिताः । तत्र सर्वसङ्ख्यया द्वात्रिंशत्पदध्रुवकाः, ते वैक्रियमिश्रादियोगत्रये न संभवन्ति, हेतुः प्रागेवोक्तः, ततो द्वात्रिंशत्रिभिर्गुणिता जाता षण्णवतिः, ते चतुि शत्या गुण्यन्ते, जातानि त्रयोविंशतिशतानि चतुरुत्तराणि २३०४ । एतावन्ति पदानि मिथ्यादृष्टेरसंभवीनि । तथा सासादनस्य वैकि For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy