________________
Shri Mahave Jain Aradhana Kendra
www.kobatirth.org
Achana Shri Kalassagarsuri Gyanmandit
IGU
| यमिश्रकाययोगे वर्तमानस्य नपुंसकवेदोदयो न घटते, हेतुस्तूक्त एव, नपुंसकवेदेन चाष्टौ भङ्गा लभ्यन्ते, ते द्वात्रिंशता पदध्रुवकैगुण्यकर्मप्रकृतिः लन्ते, जाते द्वे शते षट्पञ्चाशदधिके २५६ । इयन्ति पदानि सासादने न संभवन्ति । तथाऽविरतसम्यग्दृष्टेः कार्मणकाययोगिनो वैक्रि-| योगगुणियमिश्रकाययोगिनो वा स्त्रीवेदोदयो नोपपद्यते, अष्टषष्टिश्च तत्र पदध्रुवकाः, स्त्रीवेदेन चाष्टौ भङ्गा लभ्यन्ते, ततः षष्टिरष्टभिर्गुणिता
तोदय॥१४॥ श्चत्वारि शतान्यशीत्यधिकानि भवन्ति ४८० । एतानि च प्रत्येक कार्मणे वैकियमिश्रे च न संभवन्तीति नव शतानि षष्टयधिकानि
पदानि भवन्ति ९६० । तथाऽविरतसम्यग्दृष्टेरौदारिकमिश्रकाययोगे वर्तमानस्य स्त्रीनपुंसकवेदौ न भवतः, ताभ्यां च षोडश भङ्गा लभ्यन्ते, | ततः षष्टिः पोडशभिर्गुणिता जातानि नव शतानि पष्टयधिकानि ९६० । सर्वसङ्ख्ययाऽविरतसम्यग्दृष्टावसंभवीनि पदानि विंशान्येकोनविंशतिशतानि १९२० तथा प्रमत्तसंयतस्याहारके आहारकमिश्रे च स्त्रीवेदो न लभ्यते, प्रमत्तसंयते च पदध्रुवकाश्चतुश्चत्वारिंशत्, स्त्रीवे| देन चाष्टौ भङ्गा लभ्यन्ते, ततश्चतुश्चत्वारिंशदष्टगुणितास्त्रीणि शतानि द्विपश्चाशदधिकानि ३५२ स्युः, तानि चाहारकद्विकेन गुणितानि, | सर्वसंख्यया प्रमत्तसंयतस्यासंभवीनि पदानि सप्त शतानि चतुरुत्तराणि ७०४ । अप्रमत्तसंयतस्याप्युक्तरीत्याऽऽहारककाययोगे त्रीणि
शतानि द्विपञ्चाशदधिकानि ३५२ पदान्यसंभवीनि । सर्वसंख्ययाऽसंभवीनि पदानि पञ्चपञ्चाशच्छतानि षट्त्रिंशदुत्तराणि, एतानि , | पूर्वराशेः शोध्यन्ते, ततो भवन्ति पञ्चनवतिसहस्राणि सप्त शतानि च सप्तदशोत्तराणि । एतावन्ति योगगुणितानि पदानि मोहनीयस्य | सकलगुणस्थानकेषु भवन्ति । तदेवमुक्तो मोहनीयस्य पागनुक्तो विशेषः।
अथ नामकर्मणो विशेष उच्यते-तत्र नाम्नोऽव्यक्तबन्धोदयसत्तास्थानाभिधानप्रस्तावे गुणस्थानेषु गतिषु च बन्धोदयसत्तास्थानानि । | यद्यपि सामान्यतः कथितानि तथापि नाप्रपश्चितज्ञैः सामान्यतःकथितान्यवगन्तुं शक्यन्ते इति तेषामवबोधाय तानिप्रपञ्चतः कथ्यन्ते
. .
॥१४२॥
For Private and Personal Use Only