________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
a
CGPSIONERNOOOD
परिणामपरावृत्त्या मिथ्यात्वं गतेन भूयस्ते बद्धमारभ्यन्ते, तस्यैव मिथ्यादृष्टेबन्धावलिकामा कालं यावदनन्तानुवन्ध्युदयो न प्राप्यते, अनन्तानुबन्धिनश्च विसंयोज्य भूयोऽपि मिथ्यात्वं प्रतिपद्यते, जघन्यतोऽप्यन्तर्मुहूर्तावशेषायुष्क एवानन्तानुबन्ध्युदयरहितस्य मिथ्यादृष्टे : कालकरणप्रतिषेधात् , ततोऽपान्तरालगतौ वर्तमानस्य भवान्तरे वा प्रथमत एवोत्पन्नस्य मिथ्यादृष्टेः सतोऽनन्तानुबन्ध्युदयरहिता उदयविकल्पा न प्राप्यन्ते । अत्र च कार्मणकाययोगोऽपान्तरालगतौ औदारिकमिश्रवैक्रियमिश्रकाययोगौ च भवान्तरे उत्पद्यमानस्य, एतच्च बाहुल्यमाश्रित्योक्तं, अन्यथा तिर्यमनुष्याणामपि मिथ्यादृशां वैक्रियकारिणां वैक्रियमिश्रमवाप्यत एव, परं चूर्णिकृता तन्नात्र विवक्षितं, ततः कार्मणकाययोगादौ प्रत्येकं चतस्रश्चतुर्विंशतयोऽनन्तानुबन्ध्युदयरहिता न प्राप्यन्ते । तथा सासादनस्य कार्मणकाययोगे वैक्रियकाययोगे औदारिकमिश्रकाययोगे च प्रत्येकं चतस्रश्चतुर्विंशतयः। सम्यनिध्यादृष्टेनियकाययोगे चतस्रः । अविरतसम्यग्दृष्टेबैंक्रिय(काय)योगेऽष्टौ । देशविरतस्य वैक्रिये वैक्रियमिश्रे च प्रत्येकमष्टावष्टौ । प्रमत्तसंयतस्यापि वैक्रिये वैक्रियमिश्रे च प्रत्येक मष्टावष्टौ । अप्रमत्तसंयतस्य वैक्रियकाययोगेऽष्टौ। सर्वसङ्ख्यया चतुरशीतिश्चतुर्विंशतयः। एताश्चतुर्विंशत्या गुणिता द्वे सहस्र पोडशोत्तरे भवन्ति, तानि पूर्वराशौ प्रक्षिप्यन्ते । तथा सासादनस्य वैक्रियमिश्रे वर्तमानस्य ये चत्वारोऽमी उदयस्थानविकल्पा:-सप्तोदय एकविधः, द्विविधोऽटोदये, एकविधश्च नवोदये इति, एषु नपुंसकवेदोन लभ्यते, वैक्रियमिश्रकाययोगिषु नपुंसकवेदिषु नारकेषु मध्ये सासादनस्यो त्पादाभावात् । ये चाविरतसम्यग्दृष्टेबैंक्रियमिश्रे कार्मणकाययोगे च प्रत्येकमष्टावष्टावुदयस्थानविकल्पास्तेषु स्त्रीवेदोन लभ्यते, वैक्रियकाययोगिषु स्त्रीवेदिषु मध्येऽविरतसम्यग्दृष्टेरुत्पादाभावात्। एतच्च प्रायोवृत्योक्तम्, अन्यथा कदाचित् स्त्रीवेदिष्वपि मध्ये तदुत्पादो द्रष्टव्यः, उक्तं च सप्ततिकाचूर्णी-"कयाइ होज्ज इथिवेयगेसु वित्ति”, ततश्चतुर्विंशत्यष्टकस्य द्विनवत्यधिकशतप्रमाणस्य १९२ त्रिभागश्चतुःषष्टि
ccakcENDED
For Private and Personal Use Only