SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कर्मप्रकृतिः ॥१४३॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लिनां च सम्बन्धीनि न वाच्यानि तेषाममिध्यादृष्टित्वात्, सर्वसंख्यया मिध्यादृष्टावुदयस्थानभङ्गाः सप्त सहस्राणि सप्त शतानि त्रिसप्तत्यधिकानि ७७७३ । तथा मिथ्यादृष्टेः षद् सत्तास्थानानि, तद्यथा - द्विनवतिरेकोननवतिरष्टाशीतिः षडशीतिरशीतिरष्टसप्ततिश्च । तत्र द्विनवतिश्चतुर्गतिकानामपि मिथ्यादृष्टीनां, एकोननवतिः प्राग्बद्धनरकायुष्कस्य वेदकसम्यग्दृष्टस्तीर्थकरनाम बच्चा परिणामपरावृत्या मिथ्यात्वं गतस्य नरकेषु समुत्पद्यमानस्यान्तर्मुहूतं यावदुत्पत्तेरूर्ध्वमन्तर्मुहूर्त्तानन्तरं तु सोऽपि सम्यक्त्वं प्रतिपद्यते, अष्टाशीतिश्चतुर्गतिकानामपि मिथ्यादृष्टीनां, षडशीतिरशीतिश्चै केन्द्रियेषु यथायोगं देवगतिप्रायोग्ये नरकगतिप्रायोग्ये चोद्वलिते सति लभ्यते, एकेन्द्रियभवादुद्धृत्य विकलेन्द्रियेषु तिर्यक्पञ्चेन्द्रियेषु मनुष्येषु वा समुत्पन्नानां सर्वपर्याप्तिभावादूर्ध्वमप्यन्तर्मुहूर्त्त यावल्लभ्यते, अष्टसप्ततिस्तेजोवायूनां मनुष्यद्विके उद्वलितेऽवसेया, तद्भवादुद्धृत्योत्पन्नानामन्तर्मुहूर्त्त यावत्, परतो नियमेन मनुष्यद्विकबन्धसंभवात् । तदेवं सामान्येन मिथ्यादृष्टेर्बन्धोदय सत्तास्थानान्युक्तानि । अथ संवेध उच्यते तत्र मिध्यादृष्टेत्रयोविंशतिं बघ्नतः प्रागुक्तानि नवाप्युदयस्थानानि | ज्ञेयानि । नवरमेकविंशतिपञ्चविंशतिसप्तविंशत्यष्टाविंशत्ये कोनत्रिंशत्रिंशद्रुपेषु षट्सूदयस्थानेषु देवनैरयिकाश्रिता भङ्गा न प्राप्यन्ते तेषां त्रयोविंशत्यबन्धकत्वात् तस्या अपर्याप्त केन्द्रियप्रायोग्यत्वात् । सत्तास्थानानि पञ्च - द्विनवतिरष्टाशीतिः षडशीतिरशीतिरष्टसप्ततिचेति । तत्रैकविंशतिचतुर्विंशतिपञ्चविंशतिषविंशत्युदयेषु पञ्च सत्तास्थानानि । नवरं पञ्चविंशत्युदये तेजोवायुकायिकानधिकृत्याष्टसप्ततिः प्राप्यते । षट्विंशत्युदये तेजोवायुकायिकान् तद्भवादुद्धृत्य विकलेन्द्रिय तिर्यक्पञ्चेन्द्रियेषु वोत्पन्नानाश्रित्य प्राप्यते । सप्तत्रिंशत्यष्टा - विंशत्येकोनत्रिंशत्रिंशदेकत्रिंशद्रूपेषूदयेषु अष्टसप्ततिवर्जानि चत्वारि । सर्वसंख्यया त्रयोविंशतिबन्धके चत्वारिंशत्सत्तास्थानानि । एवं For Private and Personal Use Only adh नामकर्मणि बन्धोदय सत्तास्थाना नां विशेषः ॥ १४३॥
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy