SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6DGGC पञ्चविंशतिषड्विंशतिबन्धकानामपि वाच्यम् । केवल मिह देवोऽप्यात्मीयेषु सर्वेष्वप्युदयस्थानेषु वर्तमानः पर्याप्तैकेन्द्रियप्रायोग्यां पञ्चविंशतिं च बध्नन् संग्राह्यः । नवरं पञ्चविंशतिबन्धे बादरपर्याप्तप्रत्येकस्थिरास्थिरशुभाशुभदुर्भगानादेययशःकीय॑यश-कीर्तिपदैरष्टौ भङ्गाः, न शेषाः, सूक्ष्मसाधारणपर्याप्तेषु देवस्यानुत्पादात् । सत्तास्थानभावना पञ्चविंशतिबन्धे षड्विंशतिबन्धे च प्राग्वत् । सर्वसंख्यया चत्वारिंशत् प्रत्येकं सत्तास्थानानि । अष्टाविंशतिबन्धकस्य मिथ्यादृष्टेझै उदयस्थाने त्रिंशदेकत्रिंशच्चेति, तत्र त्रिंशत्तिर्यपञ्चेन्द्रियमनुष्यानधिकृत्य, एकत्रिंशत्तिर्यपश्चन्द्रियानेव । सत्तास्थानानि चत्वारि-द्विनवतिरेकोननवतिरष्टाशीतिः षडशीतिश्च । तत्र त्रिंशदुदये चत्वार्यपि, तत्राप्येकोननवतिबद्धजिननाम्नो वेदकसम्यग्दृष्टेः परिणामपरावृत्या मिथ्यात्वं गतस्य नरकाभिमुखस्य तद्योग्यामष्टाविंशति बध्नतोऽवसेया । शेषाणि तु त्रीण्यविशेषेण तिर्यङ्मनुष्याणाम् । एकत्रिंशदुदये एकोननवतिवर्जानि त्रीणि, एकोननवतिस्तु जिननामसहितेति तिर्यक्षु न संभवति । सर्वसंख्ययाऽष्टाविंशतिबन्धे सत्तास्थानानि सप्त । देवगतिप्रायोग्यवर्जा शेपामेकोनत्रिंशतं विकलेन्द्रिय-18 तिर्यपश्चेन्द्रियप्रायोग्यां मनुष्यगतिप्रायोग्यां च बनतो मिथ्यादृष्टेः सामान्येन नवापि प्राक्तनान्युदयस्थानानि, षट् च सत्तास्था- | नानि-द्विनवतिरेकोननवतिरष्टाशीतिः षडशीतिरशीतिरष्टसप्ततिश्च । तत्रैकविंशत्युदये सर्वाण्यपीमानि प्राप्यन्ते, तत्राप्येकोननवतिबद्धतीर्थकरनामानं मिथ्यात्वगतं नैरयिकमधिकृत्य ज्ञेया, द्विनवतिरष्टाशीतिश्च देवनैरयिकमनुजविकलेन्द्रियतिर्यपश्चन्द्रियैकेन्द्रियानपेक्ष्य, | पडशीतिश्च विकलेन्द्रियतिर्यपञ्चन्द्रियमनुजैकेन्द्रियानधिकृत्य, अष्टसप्ततिरेकेन्द्रियविकलेन्द्रियतिर्यपञ्चेन्द्रियानधिकृत्य । चतुर्विंशत्युदये एकोननवतिवर्जानि शेषाणि पश्च सत्तास्थानानि, तानि चैकेन्द्रियानेवाधिकृत्य ज्ञेयानि, अन्यत्र चतुर्विशत्युदयाभावात् । पश्चविंशत्युदये षडपि सत्तास्थानानि यथैकविंशत्युदये भावितानि तथा भावनीयानि। षविंशत्युदये एकोननवतिवर्जानि पञ्च प्राग्वद्भाव्यानि KGROCEEDS For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy