________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मप्रकृतिः ॥१४४॥
नामकर्मणि बन्धोदयसत्तास्थानानां विशेषः
ADDRECOM
एकोननवतिश्च नरकेत्पित्सोः संभविनी, न च नैरयिकस्य पर्विशत्युदय इति तद्वर्जनम् । सप्तविंशत्युदयेऽष्टसप्त तेवर्जानि पञ्च, | तत्रैकोननवतिः प्रागुक्तस्वरूपं नैरयिकमधिकृत्य, विनवतिरष्टाशीतिश्च देवनैरयिकमनुजविकलेन्द्रियतिर्यपञ्चेन्द्रियानधिकृत्य, षडशी. तिरशीतिश्चैकेन्द्रियविकलेन्द्रियतिर्यक्पश्चेन्द्रियमनुष्यानधिकृत्य, अष्टसप्ततिस्तु न संभवति, तेजोवायुवर्जानामातपोद्योतान्यतरसहितानां नारकादीनां वा सप्तविंशत्युदयस्य भावात् , तेषां चाष्टसप्ततेर्मनुष्यद्विकबन्धावश्यकत्वेनासंभवात् । एतान्येव पञ्चाष्टाविंशत्युदयेऽपि द्रष्टव्यानि, तत्रकोननवतिद्विनवत्यष्टाशीतिभावना प्राग्वदेव, पडशीतिरशीतिश्च विकलेन्द्रियतिर्यपश्चेन्द्रियमनुष्यानधिकृत्यावसेया। एवमेकोनत्रिंशदुदयेऽप्येतान्येव सत्तास्थानानि भावनीयानि । त्रिंशदुदये चत्वारि-द्विनवतिरष्टाशीतिः षडशीतिरशीतिश्चेति । एतानि विकलेन्द्रियतिर्यपश्चन्द्रियमनुष्यानधिकृत्य ज्ञेयानि । एकत्रिंशदुदयेऽप्येतान्येव चत्वारि, तानि विकलेन्द्रियतिर्यपश्चेन्द्रियानधिकृत्य द्रष्टव्यानि। सर्वसंख्यया मिथ्यादृष्टेरेकोनत्रिंशतं बध्नतः पञ्चचत्वारिंशत्सत्तास्थानानि । देवगतिप्रायोग्या या त्वेकोनत्रिंशत्सा मिथ्यादृशा न बध्यते, हेतुस्तत्रोक्त एव । तथा मनुष्यगतिदेवगतिप्रायोग्यवर्जा शेषां त्रिंशतं विकलेन्द्रियतिर्यपश्चेन्द्रियप्रायोग्यां बध्नतः सामा|न्येन प्रागुक्तानि नवोदयस्थानानि, पञ्च च सत्तास्थानानि एकोननवतिवर्जानि एकोननवतिस्त्वेकोननवतिसत्कर्मणस्तिर्यग्गतिप्रायोग्यबन्धारम्भासंभवान्न संभवति, तानि च पञ्च सत्तास्थानान्येकविंशतिचतुर्विंशतिपश्चविंशतिषविंशत्युदयेषु प्राग्वद्भावनीयानि । सप्तविंशत्यष्टाविंशत्येकोनविंशत्रिंशदेकत्रिंशद्रूपेषु पञ्चसूदयस्थानेष्वष्टसप्ततिवर्जानि चत्वारि चत्वारि सत्तास्थानानि । अष्टसप्ततिनिषेधहेतुश्च प्रागुक्त एव स्मर्त्तव्यः । सर्वसंख्यया मिथ्यादृष्टेत्रिंशतं बध्नतश्चत्वारिंशत्सत्तास्थानानि । मनुजगतिदेवगतिप्रायोग्या च त्रिंशन्मिथ्यादृष्टेर्न बन्धमायाति, मनुजगतिपायोग्यायास्त्रिंशतो जिननाम्ना देवगतिप्रायोग्यायाश्चाहारकद्विकेन सहितत्वात् , जिननामाहारकद्विकयोश्च मिथ्यादृष्टे
॥१४४॥
For Private and Personal Use Only