Book Title: Karmprakrutau Uday
Author(s): Yashovijay, Malaygiri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 278
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir a CGPSIONERNOOOD परिणामपरावृत्त्या मिथ्यात्वं गतेन भूयस्ते बद्धमारभ्यन्ते, तस्यैव मिथ्यादृष्टेबन्धावलिकामा कालं यावदनन्तानुवन्ध्युदयो न प्राप्यते, अनन्तानुबन्धिनश्च विसंयोज्य भूयोऽपि मिथ्यात्वं प्रतिपद्यते, जघन्यतोऽप्यन्तर्मुहूर्तावशेषायुष्क एवानन्तानुबन्ध्युदयरहितस्य मिथ्यादृष्टे : कालकरणप्रतिषेधात् , ततोऽपान्तरालगतौ वर्तमानस्य भवान्तरे वा प्रथमत एवोत्पन्नस्य मिथ्यादृष्टेः सतोऽनन्तानुबन्ध्युदयरहिता उदयविकल्पा न प्राप्यन्ते । अत्र च कार्मणकाययोगोऽपान्तरालगतौ औदारिकमिश्रवैक्रियमिश्रकाययोगौ च भवान्तरे उत्पद्यमानस्य, एतच्च बाहुल्यमाश्रित्योक्तं, अन्यथा तिर्यमनुष्याणामपि मिथ्यादृशां वैक्रियकारिणां वैक्रियमिश्रमवाप्यत एव, परं चूर्णिकृता तन्नात्र विवक्षितं, ततः कार्मणकाययोगादौ प्रत्येकं चतस्रश्चतुर्विंशतयोऽनन्तानुबन्ध्युदयरहिता न प्राप्यन्ते । तथा सासादनस्य कार्मणकाययोगे वैक्रियकाययोगे औदारिकमिश्रकाययोगे च प्रत्येकं चतस्रश्चतुर्विंशतयः। सम्यनिध्यादृष्टेनियकाययोगे चतस्रः । अविरतसम्यग्दृष्टेबैंक्रिय(काय)योगेऽष्टौ । देशविरतस्य वैक्रिये वैक्रियमिश्रे च प्रत्येकमष्टावष्टौ । प्रमत्तसंयतस्यापि वैक्रिये वैक्रियमिश्रे च प्रत्येक मष्टावष्टौ । अप्रमत्तसंयतस्य वैक्रियकाययोगेऽष्टौ। सर्वसङ्ख्यया चतुरशीतिश्चतुर्विंशतयः। एताश्चतुर्विंशत्या गुणिता द्वे सहस्र पोडशोत्तरे भवन्ति, तानि पूर्वराशौ प्रक्षिप्यन्ते । तथा सासादनस्य वैक्रियमिश्रे वर्तमानस्य ये चत्वारोऽमी उदयस्थानविकल्पा:-सप्तोदय एकविधः, द्विविधोऽटोदये, एकविधश्च नवोदये इति, एषु नपुंसकवेदोन लभ्यते, वैक्रियमिश्रकाययोगिषु नपुंसकवेदिषु नारकेषु मध्ये सासादनस्यो त्पादाभावात् । ये चाविरतसम्यग्दृष्टेबैंक्रियमिश्रे कार्मणकाययोगे च प्रत्येकमष्टावष्टावुदयस्थानविकल्पास्तेषु स्त्रीवेदोन लभ्यते, वैक्रियकाययोगिषु स्त्रीवेदिषु मध्येऽविरतसम्यग्दृष्टेरुत्पादाभावात्। एतच्च प्रायोवृत्योक्तम्, अन्यथा कदाचित् स्त्रीवेदिष्वपि मध्ये तदुत्पादो द्रष्टव्यः, उक्तं च सप्ततिकाचूर्णी-"कयाइ होज्ज इथिवेयगेसु वित्ति”, ततश्चतुर्विंशत्यष्टकस्य द्विनवत्यधिकशतप्रमाणस्य १९२ त्रिभागश्चतुःषष्टि ccakcENDED For Private and Personal Use Only

Loading...

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319