Book Title: Karmprakrutau Uday
Author(s): Yashovijay, Malaygiri
Publisher: ZZZ Unknown
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| अथ सर्वसंक्लिष्टस्ततो नरकगतिप्रायोग्यामष्टाविंशतिं बध्नाति तद्बन्धे च नरकद्विकं वैक्रियचतुष्टयं चावश्यं सत्तायां प्राप्यत | इत्येवमपि तस्य षडशीतिः । एकत्रिंशदुदये द्विनवतिरष्टाशीतिः षडशीतिश्चेति त्रीणि सत्तास्थानानि, एकोननवतिरिह न प्राप्यते, एकत्रिंशदुदयस्य पञ्चेन्द्रियतिर्यक्षु प्राप्तेस्तत्र च तीर्थकरनामसत्ताप्रतिषेधात् । षडशीतिस्थानभावना तु प्राग्वदेव । तदेवमष्टाविंशतिबन्धकानामष्टखप्युदयस्थानेष्वेकोनविंशतिः सत्तास्थानानि ।
एकोनत्रिंशति त्रिंशति च बध्यमानायां प्रत्येकं नव नवोदयस्थानानि सप्त सप्त च सत्तास्थानानि । तत्रोदयस्थानान्यमूनि| एकविंशतिश्चतुर्विंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिरष्टाविंशतिरेकोनत्रिंशत्रिंशदेकत्रिंशच्च । तत्रैकविंशत्युदयस्तिर्यद्मनुष्यप्रायोग्य मे कोनत्रिंशतं बध्नतां पर्याप्तापर्याप्तै केन्द्रिय विकलेन्द्रियपञ्चेन्द्रिय तिर्यग्मनुष्याणां देवनैरयिकाणां च । चतुर्विंशत्युदयः पर्याप्तापर्याप्तै केन्द्रियाणाम् । पञ्चविंशत्युदयः पर्याप्तै केन्द्रियाणां देवनैरयिकाणां वैक्रियतिर्यग्मनुष्याणां च मिथ्यादृष्टीनां । षड्विंशत्युदयः पर्याप्त केन्द्रियाणां पर्याप्तापर्याप्तविकलेन्द्रियतिर्यक्पञ्चेन्द्रियमनुष्याणां च । सप्तविंशत्युदयः पर्याप्तै केन्द्रियाणां देवनैरयिकाणां वैक्रियतिर्यग्मनुष्याणां च मिथ्यादृष्टीनां । अष्टाविंशत्युदय एकोनत्रिंशदुदयश्च विकलेन्द्रियतिर्यक्पञ्चेन्द्रियमनुष्याणां वैक्रिय पञ्चेन्द्रियतिर्यग्मनुष्य देवनैरयिकाणां च । त्रिंशदुदयो विकलेन्द्रिय तिर्यक्पश्ञ्चेन्द्रियमनुष्याणां देवानां चोद्योतवेदकानाम् । एकत्रिंशदुदयः पर्याप्तविकलेन्द्रियतिर्यक्पञ्चेन्द्रियाणामुद्योतवेदकानाम् । तथा देवगतिप्रायोग्यामेकोनत्रिंशतं बघ्नतो मनुष्यस्याविरतसम्यग्दृष्टेरुदयस्थानानि सप्त, तद्यथा - एकविंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिरष्टाविंशतिरेकोनत्रिंशत्रिंशच्च । आहारकसंयतानां वैक्रियसंयतानां चेमानि पञ्चोदयस्थानानि तद्यथा - पञ्चविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनत्रिंशत्रिंशत् । असंयतानां संयतासंयतानां च
For Private and Personal Use Only
saskan222

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319