Book Title: Karmprakrutau Uday
Author(s): Yashovijay, Malaygiri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 267
________________ Shri Mahavir Jain Aradhana Kendra sas कर्मप्रकृतिः | 1123011 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चत्वारो भङ्गाः - असातस्य बन्धः सातस्योदयो द्वे सती, यद्वाऽसातस्य बन्धोऽसातस्योदयो द्वे सती, (यद्वा) सातस्य बन्धः सातस्योदयो द्वे सती, यद्वा सातस्य बन्धोऽसातस्योदयो द्वे सती इत्येते मिथ्यादृष्टेरारभ्य यावत्प्रमत्तसंयतस्तावन्नानाजीवापेक्षया कालभेदेनैकजीवापे| क्षया च भावनीयाः । सातस्य बन्धः सातस्योदयो द्वे सती, सातस्य बन्धोऽसातस्योदयो द्वे सती इत्येतौ द्वौ प्रमत्तसंयतादारभ्य याव - त्सयोगिकेवली तावत् । बन्धाभावेऽयोगिकेवलिनि चत्वारो विकल्पाः, तत्रासातस्योदयः सातासाते सती, यद्वा सातस्योदयः साता| साते सती, एतौ द्वौ द्विचरमसमयं यावत् चरमसमये त्वन्यतरस्मिन् सति द्वौ भङ्गौ, तत्रासातस्योदयोऽसातस्य सत्तेत्येष भङ्गो यस्य | द्विचरमसमये सातं क्षीणं तस्य, यस्य तु द्विचरमसमयेऽसातं क्षीणं तस्य सातस्योदयः सातस्य सत्तेत्येष भङ्गः । भाविता गुणस्थानेषु | वेदनीयस्य भङ्गाः । अथायुषो भाव्यन्ते - आयुषो मिध्यादृष्टिगुणस्थानेऽष्टाविंशतिरपि भङ्गा नैरयिकान् देवांश्चाधिकृत्य पश्च पञ्च, तिरथो मनुष्याश्चाधिकृत्य नव नवेति । सासादनस्य षड्विंशतिः, यतस्तिर्यञ्चो मनुष्या वा सासादनभावे वर्त्तमाना नरकायुर्न बध्नन्तीति परभवायुर्वन्धकाले तिरवां नृणां चैकैको भङ्गो न प्राप्यते । सम्यग्मिथ्यादृष्टेः षोडश, तस्य हि नायुर्बन्धारम्भ इति आयुर्वन्धकालीना द्वादश भङ्गा अपयान्तीति षोडश भवन्ति । अविरतसम्यग्दृष्टेविंशतिर्भङ्गाः, कथमिति चेद्, उच्यते - तिर्यमनुष्याणां प्रत्येकमायुर्वन्धकाले ये नरकतिर्यमनुष्य गतिविषयास्त्रयखयो भङ्गाः देवनैरयिकाणां च तिर्यग्गतिविषय एकैकमङ्गः ते सर्वसंख्ययाऽष्टौ अविरतसम्यग्दृष्टेर्न भवन्तीति शेषा विंशतिरेव भवन्तीति । देशविरते द्वादश भङ्गाः, यतो देशविरतिर्देवानां नारकाणां च न संभवतीति तदाश्रिता दश भङ्गा अपयान्ति । तिर्यङ्मनुष्या अपि देशविरता देवायुरेव बध्नन्ति, न नरकतिर्यङ्मनुष्यायूंषि, ततस्तिर्यङ्मनुष्याणामायुर्वन्धकालीनास्त्रयस्त्रयो भङ्गा न प्राप्यन्ते इति षडप्येतेऽपगच्छन्ति इत्यष्टाविंशतेः षोडशखपनीतेष्ववशिष्टा द्वादशैव भवन्ति । प्रमत्ताप्रमत्तयोर्य For Private and Personal Use Only गुणस्थानेषु कर्मणो भङ्गाः ॥१३७॥

Loading...

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319