Book Title: Karmprakrutau Uday
Author(s): Yashovijay, Malaygiri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 270
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | सत्तास्थाने तीर्थकरस्यैव ज्ञेये, अतीर्थकरस्यकत्रिंशदुदयाभावात् । नवोदयेऽशीतिषट्सप्ततिनवलक्षणानि त्रीणि सत्तास्थानानि, तत्राद्ये द्वे अयोगिकेवलिद्विचरमसमयं यावत्, तीर्थकरस्य चरमसमये तु नव । अष्टोदये त्रीणि सत्तास्थानानि-एकोनाशीतिः पञ्चसप्ततिरष्टौ च, | तत्राद्ये द्वे अयोगिकेवलिनोऽतीर्थकृतो द्विचरमसमयं यावत्, चरमसमये त्वष्टाविति । एवमबन्धकस्य दशस्वप्युदयस्थानेषु त्रिंशत्सत्ता-1 स्थानानि भवन्ति । तदेवं सर्वेषामपि कर्मणां प्रत्येकं बन्धोदयसत्तास्थानानि सामान्यतो मिथः संवेधतश्च चिन्तितानि । ___ अथ सर्वेषामपि कर्मणां (गुणस्थाने) बन्धोदयसत्ताः प्रत्येकं संवेधतश्चिन्त्यन्ते-तत्र ज्ञानावरणान्तराययोमिथ्यादृष्टेरारभ्य सूक्ष्मसंपरायं | | यावत् पञ्चैव प्रकृतयो बन्धे उदये सत्तायां च लभ्यन्ते, उपशान्तमोहे (क्षीणमोहे) च द्वयोरपि पञ्च पञ्च प्रकृतय उदयवत्यः सत्यश्च, सयोगिकेवल्यादौ त्वनयोरेकापि नास्ति । दर्शनावरणस्य मिथ्यादृष्टौ सासादने च द्वौ भङ्गो, नवविधो बन्धश्चतुर्विध उदयो नवविधा सत्ता, एष विकल्पो निद्रोदयाभावे, नवविधो बन्धः पञ्चविध उदयो नवविधा सत्ता, एष विकल्पो निद्रोदयकाले । मिश्रादारभ्यापूर्व-10 करणप्रथमभागं यावत् इमौ द्वौ भङ्गो, षड्विधो बन्धश्चतुर्विध उदयो नवविधा सत्ता, यद्वा षड्विधो बन्धः पञ्चविध उदयो नवविधा सत्तेति । अपूर्वकरणे निद्राप्रचलयोर्बन्धव्यवच्छेदार्चमारभ्योपशमश्रेण्या सूक्ष्मसंपरायं यावत् चतुर्विधो बन्धश्चतुर्विध उदयो नवविधा | सत्ता, यद्वा चतुर्विधो बन्धः पञ्चविध उदयो नवविधा सत्तेति द्वौ भङ्गौ । बन्धाभावेऽप्युपशान्तमोहे बन्धाभिलापनिर्मुक्तावेतावेव द्वौ | भङ्गौ । अनिवृत्तिबादरस्य सूक्ष्मसंपरायस्य च क्षपकस्य चतुर्विधे बन्धे षट्कसत्तायामतिविशुद्धत्वेन निद्रोदयाभावाच्चतुर्विध एवोदय | इत्येक एव भङ्गः । क्षीणमोहस्य बन्धाभावे द्वौ भङ्गौ-चतुर्विध उदयः पड्विधा सत्ता इत्येष भङ्गः क्षीणमोहस्य द्विचरमसमयं यावत् , चरमसमये तु चतुर्विध उदयश्चतुर्विधा सचेति । उक्ता गुणस्थानेषु दर्शनावरणीयस्य भङ्गाः । अथ वेदनीयस्योच्यन्ते-वेदनीयस्याद्या-| TODARSODHD For Private and Personal Use Only

Loading...

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319