________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
KAROBARA
ADDEGREE DOOligom
स एव मनुष्ये नव भङ्गास्त एव परभवायुर्वन्धकालीननारकर्तियङ्मनुष्यायुर्बन्धघटितभङ्गत्रयहीनाः षड् द्रष्टव्याः, प्रमत्ताप्रमत्ता हि देवायु| रेवैकं बध्नन्ति न शेषं, बन्धोत्तरकालं चरणप्रतिपच्या सत्ता तु चतुर्णामप्यायुषां संभवत्येव । अपूर्वकरणानिवृत्तिबादरसूक्ष्मसम्परायोप- | शान्तमोहेधूपशमश्रेण्यां द्वौ भङ्गो, तद्यथा-मनुष्यायुष उदयो मनुष्यायुषः सत्ता, एष भङ्गः परभवायुर्वन्धकालात्पूर्व, यद्वा मनुष्यायुष उदयो देवमनुष्यायुषी सती, एप भङ्गः परभवायुर्बन्धोत्तरं पूर्वबद्धदेवायुष उपशमश्रेणिप्रतिपत्तिसंभवात् , क्षपकश्रेण्यां त्वेतेषां मनुष्यायुष उदयो मनुष्यायुषः सत्तेत्येष एक एव भङ्गः, पूर्वबद्धायुषा क्षपकश्रेण्यप्रतिपत्तेः । क्षीणमोहादिगुणस्थानत्रयेऽप्येष एवैको भङ्गो द्रष्टव्यः । उक्ता गुणस्थानेष्वायुषो भङ्गाः। अथ गोत्रस्योच्यन्ते-मिथ्यादृष्टौ गोत्रस्यादिमाः पञ्च भङ्गाः, तद्यथा-नीचेर्गोत्रस्य बन्धो नीचैर्गोत्र-2 स्योदयो नीचैर्गोत्रं सत , एष तेजोवायुषु तद्भवादुवृत्तेषु वा कियत्कालम् । नीचैर्गोत्रस्य बन्धो नीचैर्गोत्रस्योदयो द्वे सती, यद्वा | नीचैर्गोत्रस्य बन्ध उच्चैर्गोत्रस्योदयो द्वे सती, यद्वोच्चैर्गोत्रस्य बन्धो नीचर्गोत्रस्योदयो द्वे सती, यद्वोच्चैर्गोत्रस्य बन्ध उच्चैर्गोत्र-12 स्योदयो द्वे सती, एते चत्वारोऽपि यथायोगं मिथ्यादृशां संभवन्ति । एत एवादिमहीनाश्चत्वारः सासादने संभवन्ति, आधभङ्गस्थानेषु | तेजोवायुषु सासादनभावो न लभ्यते, नापि तद्भवादुद्वृत्तेषु तदात्वे इति तत्प्रतिषेधः । मिश्रादारभ्य देशविरतिं यावदुच्चैर्गोत्रबन्धोRI पलक्षितौ प्रत्येकं द्वौ भङ्गौ भवतः । प्रमत्तसंयतादारभ्य सूक्ष्मसम्परायं यावन्नीचैर्गोत्रोदयाभावादुच्चैर्गोत्रस्य बन्ध उच्चैर्गोत्रस्योदयो ।
द्वे सती इत्येक एव भङ्गः । अबन्धेऽयोगिद्विचरमसमयं यावदुच्चैर्गोस्योदयो द्वे सती इति षष्ठ एव, चरमसमये तूच्चैर्गोत्रस्योदय 2. उच्चैर्गोत्रमेव च सदिति सप्तम एव भङ्गः। उक्ता गुणस्थानेषु गोत्रभङ्गाः । अथ मोहनीये गुणस्थानेष्वपिबन्धोदयसत्तास्थानान्युक्तान्येवेति | | न भूय उच्यन्ते ।
SADHDHOT
For Private and Personal Use Only