________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
८७
कर्मप्रकृतिः ॥१३८॥
BAADBACK
सम्प्रत्युद्धरितं पदसमूहविषयं यद्वक्तव्यं तदुच्यते-तत्र पदसमूहो द्विविधः-अव्यक्तोदयसम्बन्धी गुणस्थानकोदयसम्बन्धी च । तत्राव्यक्तोदया गुणस्थानकविनिर्मुक्तसामान्योदयास्तत्सम्बन्धिपदसमूहपरिमाणं तावदुच्यते-तत्र दशकोदये एका चतु-16 मोहस्य | विंशतिः । नवोदये षट्-तिस्रो मिथ्यादृष्टौ, सासादन मिश्राविरतसम्यग्दृष्टिषु चैकैकेति । अष्टोदये एकादश-तिस्रो मिथ्यादृष्टी, गुणस्थानेषु | सासादनमिश्रयोझै द्वे, तिस्रोऽविरतसम्यग्दृष्टी, देशविरते चैकेति । सप्तोदये दश-मिथ्यादृष्टिसासादनमिश्रेष्वेकैका, अविरतसम्यग्दृष्टि
पदवक्त
व्यता देशविरतयोस्तिस्रस्तिस्रः, प्रमत्ताप्रमत्तयोमिलितयोः स्वरूपेण भेदाभावादेका चेति । षडुदये सप्त-एकाऽविरतसम्यग्दृष्टौ, देशविरते प्रमत्ताप्रमत्तयोश्च तिम्रस्तिस्र इति । अपूर्वकरणसत्कानि षट्कादीन्युदयस्थानानि तु प्रमत्ताप्रमत्तसत्केभ्यः स्वरूपभेदाभावात् पृथड्न ८ गण्यन्ते । पञ्चकोदये चतस्त्र:-एका देशविरते, तिस्रश्च प्रमत्ताप्रमत्तयोरिति । एका चतुष्कोदये, सा च प्रमत्ताप्रमत्तयोः। स्थापना१-६-११-१०-७-४-१। एताश्चतुर्विंशतयस्तेन तेनोदयेन दशकादिना गुण्यन्ते । तथाहि-दशकोदये एका चतुर्विंशतिः, सा दश-18 केन गुण्यते, जाता दश । नवकोदये षट् चतुर्विंशतय इति षड् नवकेन गुण्यन्ते, जाताश्चतुःपञ्चाशत् । अष्टोदये एकादश चतुर्विशतय इत्येकादश अष्टभिर्गुण्यन्ते, जाता अष्टाशीतिः । सप्तोदये दश चतुर्विंशतय इति दश सप्तकेन गुण्यन्ते, जाता सप्ततिः । षडुदये सप्त चतुर्विंशतय इति सप्त पद्भिर्गुण्यन्ते, जाता द्विचत्वारिंशत् । पञ्चोदये चतस्रश्चतुर्विशतय इति चतस्रः पञ्चभिर्गुण्यन्ते जाता विंशतिः। चतुरुदये एका चतुर्विंशतिरित्येका चतुर्भिर्गुण्यते, जाताश्चत्वारः। स्थापना-१०-५४-८८-७०-४२-२०-४। इत्थं गुणित्वा 0 | चतुर्विशतय एकत्र मील्यन्ते, जातं शतद्वयमष्टाशीतं २८८ । तत एतच्चतुर्विंशत्या गुण्यते, जातानि द्वादशोत्तराण्येकोनसप्ततिशतानि ||॥१३८॥ ६९१२। तत्र द्विकोदयभङ्गा द्वादश, तेषां द्विकसंज्ञेनोदयेन गुणितानि पदानि चतुर्विंशतिः, एकोदयभङ्गाश्चत्वारः, तेषां चैकोदयगुणितानि
AUic
For Private and Personal Use Only