Book Title: Karmprakrutau Uday
Author(s): Yashovijay, Malaygiri
Publisher: ZZZ Unknown
View full book text
________________
Shri Mahavir Jain Aradhana Kendr
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanm
कर्मप्रकृतिः ॥१२६॥
reOOK
.. अथ नैरयिकाणामुच्यन्ते-तत्र नैरयिकाणामुदयस्थानानि पञ्च, तद्यथा-एकविंशतिः पञ्चविंशतिः सप्तविंशतिरष्टाविंशतिरेकोन. त्रिंशत् । तत्र नरकद्विकं पञ्चेन्द्रियजातिवसबादरपर्याप्तानि दुर्भगमनादेयमयशःकीर्तिश्चेत्येता नव द्वादशसंख्ययाभिध्रुवोदयिनीभिः
नाम्नःजीवेसहिता एकविंशतिः, अत्र सर्वाण्यपि पदान्यप्रशस्तान्येवेत्येक एव भङ्गः, एवमन्यत्रापि ज्ञेयम् । ततः शरीरस्थस्य वैक्रियद्विकं प्रत्येक
प्रदयस्था
नानि हुण्डमुपघातमिति पञ्च प्रकृतयः क्षिप्यन्ते नरकानुपूर्वी चापनीयते, ततो जाता पञ्चविंशतिः । ततः शरीरेण पर्याप्तस्य पराघाते
भंगाश्च ऽप्रशस्तखगतौ च प्रक्षिप्तायां सप्तविंशतिः । ततः प्राणापानेन पर्याप्तस्योङ्यासे क्षिप्तेऽष्टाविंशतिः । ततो भाषापर्याप्तस्य दुःस्वरे क्षिप्ते एकोनत्रिंशत् । सर्वसङ्ख्यया नैरयिकेषु भङ्गाः पञ्च । समग्रोदयस्थानभङ्गाः पुनः सप्तसप्ततिशतान्येकनवत्यधिकानि ।
अथ नामप्रकृतीनामेव गुणस्थानके उदयव्यवच्छेदश्चिन्त्यते-इह मिथ्यादृष्टिगुणस्थाने नानाजीवानपेक्ष्य तीर्थकराहारकद्विकवजि| तानां सर्वासामपि नामप्रकृतीनां चतुःषष्टिसंख्यानामुदयः संभवति । तत्र साधारणसूक्ष्मापर्याप्तातपानां मिथ्यादृष्टावुदयो व्यवछिद्यते । व्यवच्छेदो नाम तत्र भाव उत्तरत्राभावः । तथा सासादने स्थावरैकेन्द्रियविकलेन्द्रियजातीनामुदयव्यवच्छेदः, इह पूर्वोक्तानां साधारणादीनामुदयासंभवात् षष्टिप्रकृतीनामुदयः । सम्यग्मिथ्यादृष्टौ च स्थावरादिपञ्चप्रकृतीनां सासादने व्यवच्छिन्नानामुदयो न भवति, तथा तस्य कालकरणाभावेनानुपूर्वीणामप्युदयो न भवतीत्येकपञ्चाशत्प्रकृतीनामुदयः । अविरतसम्यग्दृष्टिस्त्वपान्तरालगतावपि प्राप्यत इति तत्र चतसृणामप्यानुपूर्वीणामुदयः सम्भवतीति ततस्तत्र पञ्चपञ्चाशत्प्रकृतीनामुदयः। देवद्विकनरकद्विकवैक्रियद्विकदुर्भगानादेया. यशःकीर्तितिर्यअनुष्यानुपूर्वीणां सर्वसंख्ययैकादशप्रकृतीनामत्रोदयव्यवच्छेदः । अत्र च वैक्रियद्विकस्य निषेधः कर्मस्तवस्याभिप्रायेण, का ११२६॥ न तु पञ्चसंग्रहस्य, तन्मते देशविरतप्रमत्ताप्रमत्तेषु तदुदयाभ्युपगमादिति स्मर्त्तव्यम् । ततो देशविरते चतुश्चत्वारिंशत्प्रकृतीनामुदयः।
For Private and Personal Use Only

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319