SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendr www.kobatirth.org Acharya Shri Kailassagarsuri Gyanm कर्मप्रकृतिः ॥१२६॥ reOOK .. अथ नैरयिकाणामुच्यन्ते-तत्र नैरयिकाणामुदयस्थानानि पञ्च, तद्यथा-एकविंशतिः पञ्चविंशतिः सप्तविंशतिरष्टाविंशतिरेकोन. त्रिंशत् । तत्र नरकद्विकं पञ्चेन्द्रियजातिवसबादरपर्याप्तानि दुर्भगमनादेयमयशःकीर्तिश्चेत्येता नव द्वादशसंख्ययाभिध्रुवोदयिनीभिः नाम्नःजीवेसहिता एकविंशतिः, अत्र सर्वाण्यपि पदान्यप्रशस्तान्येवेत्येक एव भङ्गः, एवमन्यत्रापि ज्ञेयम् । ततः शरीरस्थस्य वैक्रियद्विकं प्रत्येक प्रदयस्था नानि हुण्डमुपघातमिति पञ्च प्रकृतयः क्षिप्यन्ते नरकानुपूर्वी चापनीयते, ततो जाता पञ्चविंशतिः । ततः शरीरेण पर्याप्तस्य पराघाते भंगाश्च ऽप्रशस्तखगतौ च प्रक्षिप्तायां सप्तविंशतिः । ततः प्राणापानेन पर्याप्तस्योङ्यासे क्षिप्तेऽष्टाविंशतिः । ततो भाषापर्याप्तस्य दुःस्वरे क्षिप्ते एकोनत्रिंशत् । सर्वसङ्ख्यया नैरयिकेषु भङ्गाः पञ्च । समग्रोदयस्थानभङ्गाः पुनः सप्तसप्ततिशतान्येकनवत्यधिकानि । अथ नामप्रकृतीनामेव गुणस्थानके उदयव्यवच्छेदश्चिन्त्यते-इह मिथ्यादृष्टिगुणस्थाने नानाजीवानपेक्ष्य तीर्थकराहारकद्विकवजि| तानां सर्वासामपि नामप्रकृतीनां चतुःषष्टिसंख्यानामुदयः संभवति । तत्र साधारणसूक्ष्मापर्याप्तातपानां मिथ्यादृष्टावुदयो व्यवछिद्यते । व्यवच्छेदो नाम तत्र भाव उत्तरत्राभावः । तथा सासादने स्थावरैकेन्द्रियविकलेन्द्रियजातीनामुदयव्यवच्छेदः, इह पूर्वोक्तानां साधारणादीनामुदयासंभवात् षष्टिप्रकृतीनामुदयः । सम्यग्मिथ्यादृष्टौ च स्थावरादिपञ्चप्रकृतीनां सासादने व्यवच्छिन्नानामुदयो न भवति, तथा तस्य कालकरणाभावेनानुपूर्वीणामप्युदयो न भवतीत्येकपञ्चाशत्प्रकृतीनामुदयः । अविरतसम्यग्दृष्टिस्त्वपान्तरालगतावपि प्राप्यत इति तत्र चतसृणामप्यानुपूर्वीणामुदयः सम्भवतीति ततस्तत्र पञ्चपञ्चाशत्प्रकृतीनामुदयः। देवद्विकनरकद्विकवैक्रियद्विकदुर्भगानादेया. यशःकीर्तितिर्यअनुष्यानुपूर्वीणां सर्वसंख्ययैकादशप्रकृतीनामत्रोदयव्यवच्छेदः । अत्र च वैक्रियद्विकस्य निषेधः कर्मस्तवस्याभिप्रायेण, का ११२६॥ न तु पञ्चसंग्रहस्य, तन्मते देशविरतप्रमत्ताप्रमत्तेषु तदुदयाभ्युपगमादिति स्मर्त्तव्यम् । ततो देशविरते चतुश्चत्वारिंशत्प्रकृतीनामुदयः। For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy