SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra A SZER www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नादेयायशः कीर्त्त्यनुदयात् सर्वसंख्याष्टाविंशतौ भङ्गा नव । ततो भाषया पर्याप्तस्योच्छ्वाससहितायामष्टाविंशतौ सुखरे क्षिप्ते एकोनत्रिंशत्, इहापि भङ्गाः प्राग्वदष्टौ अथवा संयतानां खरेऽनुदिते उद्योते तूदिते एकोनत्रिंशत्, इहापि प्राग्वदेक एव भङ्गः, सर्वसंख्ययैकोनत्रिंशति नव भङ्गाः । सुखरसहिताया मे कोनत्रिंशत्युद्योते क्षिप्ते संयतानां त्रिंशदुदयः, अत्रैक एव भङ्गः । सर्वसंख्यया वैक्रियमनुष्याणां पश्चत्रिंशद्भङ्गाः । आहारक संयतानामुदयस्थानानि पञ्च तद्यथा - पञ्चविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनत्रिंशत्रिंशच्च । तत्राहारकद्विकं समचतुरस्रमुपघातं प्रत्येकं चेति पश्च प्रकृतयः प्रागुक्तायां मनुष्यगतिप्रायोग्यायामेकविंशतौ प्रक्षिप्यन्ते ततो मनुष्यानुपूर्वी चापनीयते जाता पञ्चविंशतिः, केवल मियं सर्वप्रशस्तपदा, संयतानां दुर्भगानादेयायशः कीर्च्छदयाभावात्, इत्यत्रैक एव भङ्गः । ततः शरी रेण पर्याप्तस्य पराघाते प्रशस्तखगतौ च क्षिप्तायां सप्तविंशतिः, अत्राप्येक एव भङ्गः । ततः प्राणापानेन पर्याप्तस्योच्छ्वासे क्षिप्तेऽष्टाविं शतिः, इहाप्येको भङ्गः, अथवा शरीरेण पर्याप्तस्योच्छ्वासेऽनुदिते उद्योते तूदितेऽष्टाविंशतिः, इहापि भङ्गः एकः । सर्वसङ्ख्ययाऽष्टाविं शतौ द्वौ भङ्गौ । ततो भाषया पर्याप्तस्योच्छ्वाससहितायामष्टाविंशतौ सुखरे क्षिप्ते एकोनत्रिंशत्, इहाप्येक एव भङ्गः, अथवा प्राणापा| नेन पर्याप्तस्य खरेऽनुदिते उद्योते तूदिते एकोनत्रिंशत्, इहाप्येक एव भङ्गः, सर्वसङ्ख्ययैकोनत्रिंशति द्वौ । ततो भाषापर्याप्तस्य सुखरसहितायामे कोनत्रिंशत्युद्योते क्षिप्ते त्रिंशत्, इहेको भङ्गः । सर्वसङ्ख्ययाऽऽहारकशरीरिणां सप्त भङ्गाः । केवलिनामुदयस्थानानि दश, तद्यथा - विंशतिरेकविंशतिः पविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनत्रिंशत्रिंशदेकत्रिंशन्नवाष्टौ च । तत्र मनुष्यगतिः पञ्चेन्द्रिय जातिस्त्रसं बादरं पर्याप्तं सुभगमादेयं यशः कीर्त्तिरित्येता अष्ट ध्रुवोदयिनीभिर्द्वादशभिः सह विंशतिः, इहाप्येक एव भङ्गः, एषा चातीर्थ कृत्केवलिनः समुद्घातगतस्य कार्मणयोगे वर्त्तमानस्यावसेया । सैव विंशतिस्तीर्थकर सहितैकविंशतिः, इहाप्येको भङ्गः, एषा च तीर्थकृत्केवलिनः For Private and Personal Use Only S55202
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy