________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ष्टकयोर्भङ्गावतीर्थकृतः, एकविंशतिसप्तविंशत्येकोनविंशत्रिंशदेकत्रिंशन्नवगताच षड्भङ्गास्तीर्थकृत इति विवेकः । सर्वसङ्ख्यया मनुष्या णामुदयस्थानभङ्गाः द्वे सहस्रे षट् शतानि द्विपञ्चाशञ्च । तदेवमुक्तानि मनुष्याणामुदयस्थानानि । ___ अथ देवानामुच्यन्ते-देवानामुदयस्थानानि षट् , तद्यथा-एकविंशतिः पञ्चविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनविंशत्रिंशच्च । तत्र देवद्विकं पञ्चेन्द्रियजातिवसं बादरं पर्याप्तं सुभगदुर्भयोरेकतरं आदेयानादेययोरेकतरं यशःकीय॑यशःकीयोरेकतरेति नव प्रागुक्ता-15 [भिदिशभिध्रुवोदयिनीभिः सहितैकविंशतिः, अत्र सुभगदुर्भगादेयानादेययश-कीर्त्ययश कीर्तिभिरष्टौ भङ्गाः, इह च दुर्भगानादेयायशःकीर्तीनामुदयः पिशाचादीनामवसेयः। ततः शरीरस्थस्य वैक्रियद्विकमुपघातं प्रत्येकं समचतुरस्रमिति पश्च प्रकृतयः क्षिप्यन्ते । | देवानुपूर्वी चापनीयते, ततो जाता पञ्चविंशतिः, अत्रापि भङ्गास्तथैवाष्टौ । ततः शरीरेण पर्याप्तस्य पराघाते प्रशस्तविहायोगतौ च 2 7 क्षिप्तायां सप्तविंशतिः, अत्रापि भङ्गाः प्राग्वदष्टौ । देवानामप्रशस्तविहायोगतेरुदयो न भवतीति तदाश्रिता विकल्पा न लभ्यन्ते । ततः
प्राणापानेन पर्याप्तस्योच्छ्वासे क्षिप्तेष्टाविंशतिः, अत्रापि प्राग्वदष्टौ भङ्गाः, अथवा शरीरेण पयाप्तस्योच्छ्वासेऽनुद्रिते उद्योते तूदितेऽष्टाविंशतिः, इहापि भङ्गाः प्राग्वदष्टौ,, सर्वसङ्ख्ययाऽष्टाविंशतौ भङ्गाः षोडश । ततो भाषापर्याप्तस्य सुस्वरे क्षिप्ते एकोनत्रिंशत् , इहापि भङ्गाः प्राग्वदष्टौ । दुःस्वरोदया देवा न भवन्तीति तदाश्रितविकल्पा न भवन्ति, अथवा प्राणापानेन पर्याप्तस्य सुखरेऽनुदिते | उद्योते तूदिते एकोनत्रिंशत् , उत्तरवैक्रियं हि कुर्वतो देवस्योद्योतोदयो लभ्यते, अत्रापि प्राग्वदष्टौ भङ्गाः, सर्वसंख्ययकोनविंशति
पोडश भङ्गाः । ततो भाषापर्याप्तस्य सुस्वरसहितायामेकोनत्रिंशत्युग्रोते क्षिप्ते त्रिंशत् , अत्रापि भङ्गाः प्राग्वदष्टौ । सर्वसंख्यया देवानां | भङ्गाश्चतुःषष्टिः । तदेवमुक्तानि देवानामुदयस्थानानि ।
HariODARDOIDROID
For Private and Personal Use Only