SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Adriana Shri Kailassagersuri Gyanmandie ४ तथाहि-अनन्तानुवन्धिनां वेदकसम्यक्त्वस्य भयजुगुप्सयोष कादाचित्क उदयो भवति, यतः सम्यक्त्वप्रभावेणोद्वलितानामनन्तानुब|न्धिनां भूयोऽपि मिथ्यात्वप्रतिपत्तौ तन्महिम्नोपचितानामावलिकामात्रमुदयो न भवति, शेषकालं तु भवति । अविरतसम्यग्दृष्टयादी| नामप्यौपशमिकसम्यक्त्ववतां क्षायिकसम्यक्त्ववतां वा वेदकसम्यक्त्वस्योदयो न भवति, शेषाणां तु भवति । भयजुगुप्सयोस्त्वध्रुवो-| दयत्वादेव मिथ्यादृष्टयादिष्वपूर्वकरणान्तेषु कदाचिदुदयो भवति कदाचिन्नत्येककस्मिन् गुणस्थाने उदयास्तद्भाविभङ्गचतुर्विशतयश्च | | बहुधा भवन्ति । तत्र मिथ्यादृष्टौ सप्ताष्टौ नव दश चेति चत्वार उदया भवन्ति । तत्र मिथ्यात्वमनन्तानुबन्धिवर्जा अन्यतमे त्रयः क्रोधा |दिकाः त्रयाणां वेदानामन्यतमो वेदो द्वयोर्युगलयोरन्यतरद्युगलमित्येतासां सप्तानां नियमादुदयो भवति । अत्र द्वाभ्यां युगलाभ्यां त्रिभिः | देश्चतुर्भिश्च क्रोधादिभिः परस्परं ताडने भङ्गाश्चतुर्विंशतिः । तस्मिन्नेव सप्तके भये वा जुगुप्सायां वाऽनन्तानुवन्धिनि वा प्रक्षिप्तेष्टानामुदयः, अत्र भयादौ प्रत्येकमेकैका चतुर्विंशतिः प्राप्यत इति तिस्रश्चतुर्विंशतयः। ननु सप्तोदयेऽष्टकोदये वा क्वचिन्मिथ्यादृष्टिरनन्तानुव मध्युदयरहितः कथं प्राप्यते इति चेद् ,उच्यते-यः कश्चित्सम्यग्दृष्टिः सननन्तानुबन्धिविसंयोजनयैव विश्रान्तो मिथ्यात्वादिक्षयाय नोयु. Iक्तवान् तस्य कालान्तरे मिथ्यात्वं गतस्य तत्प्रत्ययतो भूयोऽप्यनन्तानुबन्धिनां बन्धे प्रवर्त्तमाने बन्धावलिका यावन्नातिकामति तावदुदयो न भवति, बन्धावलिकायां त्वतिक्रान्तायां भवेदपि । अथ कथं बन्धावलिकातिक्रमेऽप्युदयः संभवी? जघन्यतोऽप्यनन्तानुवन्धिनामबा धाकालस्यान्तर्मुहुर्तमानत्वात् , नैष दोषः, यतो बन्धसमयादारभ्य तेषां सत्ता भवति, सत्तायां च सत्यां बन्धकालं यावत् पतद्ग्रहता, पितद्ग्रहतायां च सत्यां शेषसजातीयप्रकृतिदलिकसंक्रान्तिः, संक्रान्तं च पतद्ग्रहप्रकृतिरूपतया परिणमते । ततः संक्रमावलिकायामती | तायामुदयो भवतीति बन्धावलिकायामतीतायां तदभिधानमविरुद्धम् । तथा तस्मिन्नैव सप्तके भयजुगुप्सयोरथवा भयानन्तानुबन्धिनो RoaseDics For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy