________________
Shri Mahavir Jain Aradhana Kendra
..
_www.kebatirth org__
.
..
charya Shri Kallassagarsur Gyanmandir
कर्मप्रकृतिः ॥१०॥
तिस्रः, प्रमत्ते च तिस्र इति । पञ्चकोदये चतस्रः, तत्र देशविरतस्यैका, प्रमत्तस्य च तिस्रः । चतुष्कोदये एका, सा च प्रमत्तस्येति । सर्वसङ्खथया चत्वारिंशचतुर्विंशतयः, ताश्च चतुर्विशत्या गुण्यन्ते, जातानि नव शतानि पष्टथधिकानि । तथा पञ्चादिषु बन्धस्थानेषु मोहोदयक्रमेण द्वादश चत्वारः त्रयो द्वावेकश्चेत्युदयविकल्पा भवन्ति । तथाहि-पञ्चविधबन्धकाले द्वयोः प्रकृत्योरुदयः, चतुर्णा संज्वलनाना-19 स्थानभङ्गाः मन्यतमस्यैकस्य क्रोधादेस्त्रयाणां वेदानामन्यतमस्य वेदस्य चेति, अत्र त्रिभिश्चतुणां ताडने द्वादश भङ्गाः । चतुर्विधबन्धे त्वेकोदयः, यतः पुरुषवेदबन्धव्यवच्छेदे चतुर्विधवन्धो भवति, पुरुषवेदस्य च बन्धोदयौ युगपद्वथवच्छिद्यते इति, स चैककोदयश्चतुर्णा संज्वलनानामन्यतमस्य, अत्र च चत्वारो भङ्गाः, यतः कोऽपि संज्वलनक्रोधेनोदयप्राप्तेन श्रेणिं प्रतिपद्यते, कोऽपि संज्वलनमानेन, कोऽपि संज्वलनमायया, कोऽपि संज्वलनलोभेनेति चत्वारो भङ्गाः । संज्वलनक्रोधबन्धव्यवच्छेदे त्रिविधो बन्धः, अत्राप्येकविध उदयः, स च संज्वलनक्रोधवर्जानां त्रयाणामन्यतमस्यात्र त्रयो भङ्गाः । संज्वलनमानबन्धव्यवच्छेदे द्विविधो बन्धः, अत्राप्येकविध उदयः, स | च संज्वलनमायालोभयोरन्यतरस्य द्रष्टव्यः, अत्र द्वौ भङ्गौ । संज्वलनमायावन्धव्यवच्छेदे एकविधो बन्धः, तत्राप्युदय एकविधः, स च संज्वलनलोभोदयरूपोऽवगन्तव्यः, अत्रैक एव भङ्गः, । इह यद्यपि पश्चादिषु बन्धस्थानेषु संज्वलनानामुदयमधिकृत्य न विशेषस्तथापि बन्धस्थानापेक्षया भेदोऽस्तीति पृथग् भङ्गा गण्यन्ते । प्रमत्तानमत्तापूर्वकरणानां तु बन्धस्थानापेक्षयाऽपि न भेदः, सर्वषामपि नवबन्धकत्वात् , तत एतेषां भङ्गाः पार्थक्येन न गणिताः । तथाऽबन्धकेऽपि सूक्ष्मसम्पराये एककोदयः । सर्वसङ्घययाऽमी उदयविकल्पास्त्रयोविंशतिः, एते प्रागुक्तेषूदयविकल्पेषु क्षिप्ता नव शतानि त्र्यशीत्यधिकानि भवन्ति । इह केचिदाचार्याश्चतुर्विधवन्धकस्याप्या- |॥१०६॥ द्यविभागे वेदोदयमिच्छन्ति, ततश्च तन्मतेन चतुर्विधवन्धकेपि द्विकोदयभङ्गा द्वादश भवन्ति, ते च बन्धकभेदेन भिन्ना इति
For Private and Personal Use Only