SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Kararaks www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir стран पशमिकसम्यग्दृष्टेः क्षायिकसम्यग्दृष्टेर्वा देशविरतस्य तृतीयचतुर्थकषायाणामन्यतमौ द्वौ क्रोधादिकावन्यतमो वेदोऽन्यतरद्युगलं चेति पञ्चानामुदयो ध्रुवः, अत्रैका चतुर्विंशतिः । भयजुगुप्सा वेदकसम्यक्त्वानामन्यतमस्मिन् प्रक्षिप्ते पण्णामुदयः, अत्र तिस्रश्चतुर्विंशतयः । अन्यतरद्वयप्रक्षेपे सप्तानामुदयः, अत्रापि तिस्रश्चतुर्विंशतयः । युगपत्रयप्रक्षेपेऽष्टानामुदयः, अत्रैका चतुर्विंशतिः । सर्वसङ्ख्यया देशविरतेऽष्टौ । प्रमत्तसंयते चतस्रः पञ्च षड् सप्त चेति चत्वार उदयाः । तत्र संज्वलनानामन्यतम एकः क्रोधादिरन्यतमो वेदोऽन्यतरच्च युगलमित्येतासां चतसृणामुदयः प्रमत्तसंयते ध्रुवः, अत्रैका चतुर्विंशतिः । ततो भयजुगुप्सावेदकसम्यक्त्वानामन्यतमैकमक्षेपे पञ्चानामुदयः, तत्र तिस्रश्चतुर्विंशतयः, अन्यतरद्वयप्रक्षेपे षण्णामुदयः, तत्रापि तिस्रश्चतुर्विंशतयः, युगपत्रयप्रक्षेपे सप्तानामुदयः, तत्रैका चतुर्विंशतिः । सर्वसङ्ख्यया प्रमत्तेऽष्टौ । एवमेवाप्रमत्तेऽपि चतुर्षुदयेष्वष्टौ भावनीयाः । अपूर्वकरणे चतस्रः पञ्च षट् चेति त्रय उदयाः । तत्र चतस्रः प्राग्वत्, अत्रैका चतुर्विंशतिः । अस्मिन्नेव चतुष्के भये वा जुगुप्सायां वा क्षिप्तायां पञ्चानामुदयः, अत्र द्वे चतुर्विंशती । भयजुगुप्सयोस्तु युगपत् क्षिप्तयोः षण्णामुदयः, अत्रैका चतुर्विंशतिः । सर्वसङ्ख्ययाऽपूर्वकरणे चतस्रश्चतुर्विंशतयः । इहाप्रमत्तापूर्वकरणयोरुदयाः प्रमत्तोदयापेक्षया गुणस्थानभेदमात्रेणैव भिन्ना न परमार्थत इति प्रमत्तोदयग्रहणनैव ते गृहीता द्रष्टव्याः । अत एवाग्रे तयोश्चतुर्विंशतयः पृथग् न गणयिष्यन्ते । अथ दशोदयादिषु यावत्यश्चतुर्विंशतयो भवन्ति तावत्यो निर्दिश्यन्ते तत्र दशकोदये एका चतुर्विंशतिर्मिथ्यादृष्टौ । नवोदये पद्, तत्र तिस्रो मिथ्यादृष्टौ, सासादने मिऽविरते चैकैका । अष्टोदये एकादश, तथाहि| तिस्रो मिथ्यादृष्टौ द्वे सासादने, द्वे मिश्र, तिस्रोऽविरतसम्यग्दृष्टौ देशविरते चैका । सप्तोदये दश, तद्यथा-मिथ्यादृष्टिसासादनमिश्रप्रमत्तसंयतेष्वेकैका, अविरतसम्यग्दृष्टौ देशविरते च तिस्रस्तिस्रः । षडुदये सप्त, तथाहि अविरतसम्यग्दृष्टावेका, देशविरते For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy