________________
Shri Mahavir Jain Aradhana Kendra
कर्मप्रकृतिः ॥१०५॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
र्यद्वा जुगुप्साऽनन्तानुबन्धिनोः प्रक्षिप्तयोर्नवानामुदयः । तत्राप्येकैकस्मिन् विकल्पे भङ्गानां चतुर्विंशतिः प्राप्यत इति तिस्रश्चतुर्विंशतयः । तथा तस्मिन्नेव सप्तके भयजुगुप्सानन्तानुबन्धिषु युगपत्प्रक्षिप्तेषु दशानामुदयः । अत्रैकैव भङ्गानां चतुर्विंशतिः । सर्वसङ्ख्यया मिथ्यादृष्टावष्टौ चतुर्विंशतयः । सासादने मिश्रे च सप्ताष्ट नवलक्षणास्त्रय उदयाः । तत्रानन्तानुबन्ध्यादीनामन्यतमे चत्वारः क्रोधादि - कास्त्रयाणां वेदानामन्यतमो वेदो द्वयोर्युगलयोरन्यतरद्युगल मित्येतासां सप्तानां प्रकृतीनामुदयः सासादने ध्रुवः । अत्र प्रागुक्तरीत्या भङ्गानामेका चतुर्विंशतिः । तथा तस्मिन्नेव सप्तके भये वा जुगुप्सायां वा क्षिप्तायामष्टानामुदयः अत्र द्वे चतुर्विंशती भङ्गानां । भय जुगुप्सयोर्युगपत्क्षिप्तयोर्नवानामुदयः, अत्रैका भङ्गानां चतुर्विंशतिः । सर्वसङ्खचया सासादने चतस्रश्चतुर्विंशतयः । तथा सम्यनियादृष्टावनन्तानुबन्धिवर्जास्त्रयोऽन्यतमे क्रोधादयः त्रयाणां वेदानामन्यतमो वेदो द्वयोर्युगलयोरन्यतरद्यगलं सम्यग्मिथ्यात्वं चेति सप्तानां प्रकृतीनामुदयो ध्रुवः । अत्र प्रागुक्तरीत्या भङ्गानामेका चतुर्विंशतिः । अस्मिन्नेव सप्तके भये जुगुप्सायां वा क्षिप्तायामष्टानामुदयः अत्र द्वे चतुर्विंशती । भयजुगुप्सयोर्युगपत्क्षिप्तयोर्नवानामुदयः, अत्रैका चतुर्विंशतिः । सर्वसंख्यया सम्यग्मिथ्यादृष्टौ चतस्रश्चतुर्विंशतयः । अविरतसम्यग्दृष्टौ षट् सप्ताष्टौ नव चेति चत्वार उदयाः । तत्रौपशमिकसम्यग्दृष्टेः क्षायिकसम्यग्दृष्टेर्वा अस्यानन्तानुबन्धिवर्जास्त्रयोऽन्यतमे क्रोधादिका अन्यतमो वेदोऽन्यतरच्च युगलमिति षण्णामुदयो ध्रुवः, अत्रापि प्राग्वद्भङ्गानामेका चतुर्विंशतिः । अस्मिन्नेव पट्के भये जुगुप्सायां वा वेदकसम्यक्त्वे वा क्षिप्ते सप्तानामुदयः, अत्र भयादिषु प्रत्येकमेकैकचतुर्विंशतिप्राप्तेस्तिस्रश्चतुर्विंशतयः । तस्मिन्नेव पट्के भयजुगुप्सयोर्वा भय वेदकयोर्वा जुगुप्सावेदकयोर्वा क्षिप्तयोरष्टानामुदयः, अत्रापि तिस्रश्चतुर्विंशतयः । युगपत्रप्रक्षेपे नवानामुदयः, अत्रैका चतुर्विंशतिः । सर्वसङ्खयाऽविरतसम्यग्दृष्टावष्टौ । देशविरते पञ्च पद सप्ताष्टौ चेति चत्वार उदयाः । तत्रौ
For Private and Personal Use Only
मोहोदयस्थानभङ्गाः
॥१०५॥