________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राप्यत इति द्विधा, नवकबन्धं यावत्सर्वेषामपि हास्यरत्योररतिशोकयोश्च विकल्पेन बन्धकत्वात् । भूयः सा त्रिष्वपि वेदेषु प्रत्येकं विकल्पेन प्राप्यत इति षोढा । सैव द्वाविंशतिमिथ्यात्वाबन्धे एकविंशतिः, नवरमत्र द्वयोर्वेदयोरन्यतरो वेद इति वाच्यं । एकविंशतिबन्धकानां सामादनानां नपुंसकवेदाबन्धकत्वात्तद्वन्धस्य मिथ्यात्वोदय हेतुकत्वात्सासादनानां च तदुदयाभावात्ततो द्वयोर्युगलयोद्वयोश्च वेदयोः संचारणया चतुर्वैकविंशतिः । प्रथमकषायाबन्धे सप्तदशको बन्धः, द्वितीयकपायाबन्धे त्रयोदशकः, तृतीयकपायाबन्धे नवकः, एतेषु सप्तदशादिषु अनन्तानुबन्ध्युदयाभावात् स्त्रीवेदस्य न बन्ध इति पुरुषवेद एक एव बध्यते इति द्वावेव भङ्गौ युगलद्विकेन लभ्येते । तत्रापि नवकवन्धे प्रमत्तगुणस्थाने युगलविकल्पः प्राप्यते, अप्रमत्तापूर्वकरणयोश्च हास्यरतिरूपमेकमेव युगलं प्राप्यते, अरतिशोकयुगलस्य प्रमत्तगुणस्थान एव स्थितत्वादित्येतद्गुणस्थानद्वये नवकबन्ध एकरूप । तथा हास्यरतिभयजुगुप्सा अपूर्वकरण एव तिष्ठन्ति परतो नानुवर्त्तन्ते । ततोऽनिवृत्तिवादरे प्रथमसमयादारभ्य पञ्चको बन्धः, स चानिवृत्तिवादराद्धायाः प्रथमपञ्चमभागान्तं यावत् । ततः परतः पुरुषवेदस्य बन्धाभावाच्चतुर्विधो बन्धः, सोऽप्यनिवृत्तिबादरसम्परायाद्धाया द्वितीयपञ्चमभागान्तं यावत् । ततः परतः संज्वलनक्रोधस्य बन्धाभावात्रिको बन्धः, सोऽपि तृतीयपञ्चमभागान्तं यावत् । ततः परतः संज्वलनमानस्य बन्धाभावाद्द्द्विको बन्धः, सोऽपि चतुर्थपञ्चमभागान्तं यावत् । ततः परतः संज्वलनमायाया बन्धाभावात्संज्वलनलोभस्यैकस्य बन्धः, स चानिवृत्तिवाद र सम्पराय गुणस्थान चरमसमयं यावत् । अमीषामेव बन्धस्थानानां कालप्रमाणमभिधास्यामः - तत्र द्वाविंशतिबन्धे कालमधिकृत्य भङ्गत्रयं तथाहि - अभव्यानामेष बन्धोऽनाद्यपर्यवसितः, भव्यानामनादिसपर्यवसितः, सम्यक्त्वपरिभ्रष्टानां सादिसपर्यवसानः, स च जघन्येनान्तर्मुहूर्त्तप्रमाण उत्कर्षेण देशोनपुद्गलपरावर्त्तार्द्धमानः । एकविंशतिबन्धस्तु सासादनभावे लभ्यते, ततो यावानेव
For Private and Personal Use Only