Book Title: Dvyasrayakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai
View full book text
________________
[ है० ५.२.५९.] द्वादशः सर्गः।
अविवेकिधुर्योथ स तान्विकत्थी
प्रविकासिविम्भिविलासिनीयुक् । प्रविकाषिद्रष्ट्रो न्यदिशद्विघाती
समितेर्विलापी नृपलापलापी ॥ ३४ ॥ ३४. प्रविकासिन्यो रूपादिना साधु शोभमाना विश्रम्भिण्यो विश्वासस्थानं या विलासिन्यः सातिशयविलासा नायिकास्ताभिर्युग् युक्तोकुतोभयत्वादतिसुखावगाढ इत्यर्थः । नृपलापलाषी नरमांसाभिलाषी राक्षसः स बर्बरकोथागतबलश्रवणानन्तरं तानाक्षसान्यदिशद्रणायाज्ञापयत् । कीदृक्सन । अविवेकिधुर्योत एव विकत्थ्यात्मबहुमानीत्यर्थः । तथा विघाती शत्रून्हन्तात एव समिते रणस्य विलाषीच्छुरत एव कोपावेशात्प्रविकापिण्यो मिथो घर्षणशीला दंष्ट्रा यस्य स तथा ॥ समराभिलाषी सरितीह संवास्थयमस्तुराण्मृत्युपथप्रवासी । इतिवादिनस्ते दधिरेतिचार्यव्यभिचारिसंचार्यपचारिणोत्रम् ३५
३५. ते बर्बरादिष्टा राक्षसा अस्त्रं दधिरे । कीदृशाः । अतिचारिणो हिंसादिपापकर्मकारिणोव्यभिचारिणः स्वामिन्यद्रोहिणः संचारिणश्च मिथः प्रीतत्वात्सहचारिणो येपचारिणोपकृष्टमुनिवधाद्यनुष्ठानास्ते तथा । तथेतिवादिनः । तथा हि समराभिलाष्यत एवेह सरिति
१ डी विस्तम्भि'. २ ए ‘म्भिला. ३ ए °लापला. १बी काशिन्यो. २ बी विस्रम्भि. ३ एनं पा वि. सी न थोपा वि. डी नं पोषा वि. ४ ए सी डी नायका. ५ बी र्युक्तो'. ६ ए सी डी सानादि'. ७ डी रणेस्य. ८ ए °च्छुः स ए. सी डी °च्छु स ए. ९ए दृशाति. सी दृशौति°. डी दृशोति.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org