Book Title: Dvyasrayakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai
View full book text ________________
[है. ७.४.३४.] विंशः सर्गः।
६०३ निह जगति प्रेम प्रियभावं प्रीतिं नेदयत्यन्तिकं करोति । कीदृशम् । सह वरिम्णोरुत्वेन यत्तत्सवरिम महत् । यतः। कीदृशः । प्रापयन्प्रियमाचक्षाणः । यो हि गरीयान्वक्ता स्यात्स सुखदोक्तिभिर्जगतो महती प्रीति निकटीकरोतीत्यर्थः । अहं त्वगरिमा स्त्रीत्वेन गुरुत्वरहितात्रपिमाणं त्रपिम्णा दुःखेन रहितं त्वां ही खेदे त्रपिष्ठं महापुरुषत्वेन दर्पणवन्निर्मले त्वच्चित्ते स्वदुःखसंक्रमणेनातिदुःखिनं करोमि । यतस्त्रपयन्ती नृपं(तृप्रं?) स्वदुःखमाचक्षाणा ॥ स्वागता छन्दः ॥
दुःखभणनेन सजनैजनस्य दुःखकारिणं स्वं प्रणिन्द्य दुःखहेतूनाह ।
आसीत्प्रेयान्मेतिवृन्दिष्ठ वृन्दी
यान्त्रीप्रेष्ठः स्फेष्ठबंहिष्ठकान्तिः। स्फेयोद्राधिष्ठेक्षणश्रीरतिस्थे
योवर्षीयाँन्स्थेष्ठवर्षिष्ठबुद्ध्या ॥ ५४॥ ५४ हे अतिवृन्दिष्ठ महापुरुषत्वेनातिप्रशस्य मे मम प्रेयान्भर्तासीत् । कीहक् । स्फेष्ठातिस्थिरात्युपचिता बंहिष्ठातिबहुला कान्तिर्लक्ष्म्याधुत्कर्षजनिता दीप्तिर्यस्य सः । तथा स्फेयस्यत्युपचिता द्राघिष्ठातिदीर्घक्षणश्रीर्यस्य सः । अतिरूपपात्रमित्यर्थः । तथा स्थेष्ठातिस्थिरा वर्षिष्ठा चातिवृद्धा या बुद्धिस्तया कृत्वातिस्थेयो वर्षीयान् स्या. १ ए 'न्तिः । स्पेय'. सी °न्तिः । स्फाय. २ सी तिस्थायो'. ३ बी 'यान्श्रेष्ठ'. सी यान्स्वेष्ठ.
१बी रिम्नोरु. २ए त् । की. ३ बी न्वत्त्यास्यात्सुखौं. ४ बी ही क्षेदे. ५ सी णनिर्म'. ६ ए न्ती पृप्रं दुः". ७ सी नस्य. ८ सी स्वं प्राणि. ९ एक् । स्पेष्ठा .सी क् । स्पष्टाति'. १० ए °था स्वेष्ठा. बी था श्रेष्ठ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 625 626 627 628