Book Title: Dvyasrayakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai
View full book text
________________
[है ० ७.१.५.] सप्रदशः सर्गः ।
धनी धेनुष्यया धो गार्हपत्येन ना यथा । नदी नाव्यैजलैर्वासां क्रीडयातीयत स्मरः ॥ ११६ ॥ ११६. आसां स्त्रीणां क्रीडया मद्यपान केल्या स्मरोप्रीयत विज़म्भित इत्यर्थः । यथा धेनुष्ययाधमणेनोत्तमय ऋणप्रदानादोहार्थ धेनुर्दीयते सा धेनुरेव धेनुष्या पीतदुग्धेति यस्याः प्रसिद्धिस्तया कृत्वा धनीश्वर उत्तमर्णः प्रीयते । यथा वा गार्हपत्येनाग्निभेदेन कृत्वा धो धर्मादनपेतो धार्मिको ना नरः प्रीयते । यथा वा नोव्यैन वा ताजलैः कृत्वा नदी प्रीयते विजृम्भत इत्यर्थः ॥
विष्यः कोपीति न न्याय्यमर्थ्य मत्यमिति स्मरन् ।
गुडकल्पेन ताः कामो मद्यास्त्रेणाक्षिपत्ततः ॥ ११७ ॥ ११७. ततो विजम्भणानन्तरं कामो गुडकल्पेनेषदपरिसमाप्तगुडे न प्रायो गुडमयेनेत्यर्थः । मद्यास्त्रेण कृत्वा ता अङ्गना अक्षिपन्निरा. चक्रेहन्नित्यर्थः । यतः स्मरन् । किमित्याह । कोपि शत्रुरपि विष्यो विषेण वध्य इत्येतन्नार्थ्यमर्थादर्थशास्त्रादनपेतं न । यो गुडेनापि म्रियते स शत्रुरपि विषेण न वध्य इत्युक्तेरिदं नीतिशास्त्रोत्तीर्णमित्यर्थः । अत एवं न न्याय्यं न युक्तमत एव च न मत्यं मतस्याभीष्टस्य करणं न कस्याप्येतन्न संमतमित्यर्थ इति ॥ धन्या । गण्या । इत्यत्र “धन." [ ९ ] इत्यादिना यः ॥
१ ए नाध्यैर्जलेवासां. २ बी व्यैजलै'. ३ सी वासं की,
१ ए केल्यां स्म'. २ बी मीया ऋ. ३ ए नादौहा. ४ बी को न. ५ ए नान्येनावा. ६ बी ताज'. ७ ए 'यजलैः. ८ ए. पेनैप. ९ ए त्वा . १० बी "पि मृयते स सत्रु. ११ ए रिदानीति'. १२ ए व न्या. १३ ए गणा । ई.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org