Book Title: Dvyasrayakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai

View full book text
Previous | Next

Page 596
________________ ५७२ घ्याश्रयमहाकाव्ये - [कुमारपालः] दन्बालस्तथा कुम्भस्येव पादौ यस्याः कुम्भपदी दासी । द्वन्द्वे तद्वज्जडं हेयोपादेयार्थेष्वज्ञम् ॥ व्याघ्रपदा । इत्यत्र “पात्पादस्य." [ १४८ ] इत्यादिना पादस्य पाद् ॥ अहस्त्यादेरिति किम् । हस्तिपादौ । अजपाद ॥ कुम्भपदी । विष्णुपद्याम् । इत्येतौ “कुम्भपद्यादिः" [ १४९ ] इति निपात्यौ॥ सुपादौ । चतुष्पाद् । इत्यत्र “सुसंख्यात्' [ १५० ] इति पाद् ॥ सुदत् । द्विदत् । इत्यत्र “वयसि." [ १५१ ] इत्यादिना - तस्य देतृ ॥ अत्ययोदतिररोकदन्क्रुधा श्यावदन्तयुगरोकदन्तकः । श्यावदंच यमकिंकरो यथा प्राणिभिन्मयि नृपेपि ही जनः १६ १६. मयि नृपेपि मयि राज्ञि सत्यपि । ही खेदे । जनः क्रुधा कृत्वा प्राणिभित् प्राणिनः पशून भिनत्ति विनाशयति । कीडक्सन् । अय इव दन्ता अस्या अयोदती नाम राक्षसी । तामतिक्रान्तः । राक्षसीतुल्य इत्यर्थः । यथा यमकिंकरः क्रुधा प्राणिभित् । किंकिंनामेत्याह । अरोकदस्तथा श्यावेदन्तयुगरोकदन्तकस्तथा श्यावदंश्च । अरोका निर्दीप्तयो निश्छिद्रा वा श्यावाः कपिशा दन्ता अस्येति व्युत्पत्तिः ॥ अत्ययोद॑तिः । अत्र "स्त्रियां नाम्नि" [ १५२ ] इति दैतृ ॥ श्यावदन् श्यावदन्त । अरोकदैन अरोकदन्तकः । अत्रं "इयावारोकाद्वा" [ १५३ ] इति वा देतृ ॥ रथोद्धता छन्दः ॥ १ सी च नृप. १ सी थैवज्ञ. २ ए °द्यादिति. ३ ए दतः । अ. ४ सी °पि ही म. ५ सी वदंश्च. ६ सीदति । अं. ७ ए दतः । श्या. ८ सी दन्तक । अं. ९ सी त्रशावा. १० ए दतः । र. 15 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628