Book Title: Dvyasrayakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai

View full book text
Previous | Next

Page 600
________________ ५७६ ब्याश्रयमहाकाव्ये कुमारपालः] कोपि मृषाभिभाषी विग्रो विगतनासिकः साधुवादरूपस्य परमार्थनक्रस्याभावात्(?) । अत एवायं महापापिष्ठत्वाद्भवद्भिः शिष्यः शिक्षणीयस्ततोपि मृषाभाषिणोपि सकाशात्परयौवतं परस्त्रीसमूहो जाया यस्य स परयौवतजानिः पारदारिकः परदारासेवननैतदपलापमहालीकेन च मृषाभिभाषकाद्विगुणं महापापिष्ठत्वाद्भवद्भिः प्रसभं हठाद्विशेषेणेत्यर्थः । शिष्यः। अस्मादपि परयौवतजानितोप्यत्र जगति जन्तुवधको मृषावादादिसर्वमहापापमूलेन जन्तुवधेन मृषाभिभाष्यादिपापिष्ठेभ्योतिमहापापिष्टत्वाद्भवद्भिः प्रसभं शिष्यः ।। . संजुः । संज्ञः । प्रजुः । प्रज्ञः । अत्र "संप्राद" [ १५५] इत्यादिनी जुज्ञौ ॥ - अनूर्ध्वजः(जुः)। [ऊर्ध्वज्ञः।] ऊर्ध्वजानुम् । अत्र "वोर्ध्वात्" [१५६] इति जुज्ञौ वा ॥ सुहृद्भिः । दुर्हत् । इत्येतौ "सुहृद्" [ १५७ ] इत्यादिना निपात्यौ ॥ जैत्रधन्वा । इत्यत्र “धनुषो धन्वन्' [ १५८ ] इति धन्वन् ॥ शतधन्व गाण्डिवधनुः । अत्र "वा नाम्नि" [ १५९ ] इति वा धन्वन् । खरणः । खुरणः । अत्र "खर०" [१६० ] इत्यादिना नस् ॥ गुणसम् । खरणसम् । खुरणसम् । अत्र "अस्थूलाच नसः" [ १६१ ] इति नसः ॥ अस्थूलादिति किम् । स्थूलनासिकः ॥ प्रणसः । अत्र "उपसर्गात्" [१६२ ] इति नसः ॥ १ सी शिक्ष्यः शि. २ सी शातं पर. ३ ए निः पर'. ४ सी द्विशिष्येत्य'. ५ सी शिष्यासा. ६ सी पा. ७ सी घाभा'. ८सी भ्योप्यति. ९ सी शिक्ष्यः । सं. १० ए संज्ञः प्रज्ञः. ११ सी जुः। प्रचः । अं. १२ ए संप्रत्या'. १३ सी ना निपा. १४ ए धन्वः गा. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628