________________
५७६
ब्याश्रयमहाकाव्ये कुमारपालः] कोपि मृषाभिभाषी विग्रो विगतनासिकः साधुवादरूपस्य परमार्थनक्रस्याभावात्(?) । अत एवायं महापापिष्ठत्वाद्भवद्भिः शिष्यः शिक्षणीयस्ततोपि मृषाभाषिणोपि सकाशात्परयौवतं परस्त्रीसमूहो जाया यस्य स परयौवतजानिः पारदारिकः परदारासेवननैतदपलापमहालीकेन च मृषाभिभाषकाद्विगुणं महापापिष्ठत्वाद्भवद्भिः प्रसभं हठाद्विशेषेणेत्यर्थः । शिष्यः। अस्मादपि परयौवतजानितोप्यत्र जगति जन्तुवधको मृषावादादिसर्वमहापापमूलेन जन्तुवधेन मृषाभिभाष्यादिपापिष्ठेभ्योतिमहापापिष्टत्वाद्भवद्भिः प्रसभं शिष्यः ।। . संजुः । संज्ञः । प्रजुः । प्रज्ञः । अत्र "संप्राद" [ १५५] इत्यादिनी जुज्ञौ ॥ - अनूर्ध्वजः(जुः)। [ऊर्ध्वज्ञः।] ऊर्ध्वजानुम् । अत्र "वोर्ध्वात्" [१५६] इति जुज्ञौ वा ॥ सुहृद्भिः । दुर्हत् । इत्येतौ "सुहृद्" [ १५७ ] इत्यादिना निपात्यौ ॥ जैत्रधन्वा । इत्यत्र “धनुषो धन्वन्' [ १५८ ] इति धन्वन् ॥ शतधन्व गाण्डिवधनुः । अत्र "वा नाम्नि" [ १५९ ] इति वा धन्वन् । खरणः । खुरणः । अत्र "खर०" [१६० ] इत्यादिना नस् ॥
गुणसम् । खरणसम् । खुरणसम् । अत्र "अस्थूलाच नसः" [ १६१ ] इति नसः ॥ अस्थूलादिति किम् । स्थूलनासिकः ॥ प्रणसः । अत्र "उपसर्गात्" [१६२ ] इति नसः ॥
१ सी शिक्ष्यः शि. २ सी शातं पर. ३ ए निः पर'. ४ सी द्विशिष्येत्य'. ५ सी शिष्यासा. ६ सी पा. ७ सी घाभा'. ८सी भ्योप्यति. ९ सी शिक्ष्यः । सं. १० ए संज्ञः प्रज्ञः. ११ सी जुः। प्रचः । अं. १२ ए संप्रत्या'. १३ सी ना निपा. १४ ए धन्वः गा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org