Book Title: Dvyasrayakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai
View full book text
________________
घ्याश्रयमहाकाव्ये अष्टादशः सर्गः।
कैरविण्यपटुताकृति पाथोजापटुत्वहति तेजसि भूपः । सोथ धीप्रथिमतो जगदावुध्याचतुर्यहरणः प्रचचाल ॥ १॥
१. अथ से भूपः कुमारपालः प्रचचालान्नं प्रति प्रतस्थे । क सति । तेजसि रवेरुद्योते । कीदृशे । कैरविण्यपटुताकृति कुमुदिनीनां संकोचकारके तथा पाथोजापटुत्वहति पद्मसंकोचस्यापनेतरि । कीहक्सन् । धीप्रथिमतो बुद्धेविस्ताराद्धेतोर्जगतो यदायुध्येनाबुधत्वेनाज्ञानेनाचतुर्यं कृत्याकृत्यविषयमकौशलं तस्य हरणोपनेता पृथ्वी न्याये प्रवर्तयन्नित्यर्थः ।। स्वागताच्छन्दः ॥ पार्थवेन स बलस्य निरास्यद्दिक्पृथुत्वमवनीपृथुतां च । ध्वान्तचण्डिमहरस्य च चण्डत्वं रजोनिचयचण्डतयांशोः॥२॥
२. स भूपो बलस्य पार्थवेन विस्तारेण कृत्वा दिक्पृथुत्वं दिशां विस्तारमवनीपृथुतां च निरास्यन्निराचक्रे । तथा रजोनिचयचण्डतयाश्वखुराद्युत्खातधूलिनिकरनिविडतया च कृत्वांशो रवेश्चण्डत्वं संतापकत्वेन तीव्रतां निरास्यत् । किंभूतस्य । ध्वान्तचण्डिमहरस्य । दिशो भूमिं च सैन्यैरक च तद्रजोभिराच्छादितवानित्यर्थः ।।
१ बी सी पार्थिवे. २ बी निस्यदिक्पृ. ३ ए °स्यदिक्पृ. ४ बी मरहस्य.
१ ए स नृपः. २ बी सी रुद्योते. ३ बी सी बुद्धेना' ४ बी ना. जानु. ५ बी पृथ्वी न्या. ६ सी पार्थिवे.
५३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org