Book Title: Dvyasrayakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai

View full book text
Previous | Next

Page 585
________________ [है. ७.३.१२५.] विंशः सर्गः। सुप्रातसुश्वसुदिवस्त्रिदशेश्वरो वा एणीपदाजपदभद्रपदादिराड्वा ॥२॥ .. २. स भैमिर्जाया भार्या प्रमाणी मुख्या यासां ता या जनता जनौघास्ताभिरगायि गीतः । यत उदात्तशक्तिरुद्भटप्रभुत्वादिशक्तित्रयस्तथा शोभनं कर्म प्रातः प्रभातेस्य सुप्रातस्तथा शोभनं कर्म श्वोस्य सुश्वस्तथा शोभनं कर्म दिवा यस्य सुदिवस्ततो विशेषणकर्मधारयः । सर्वदा न्याय्योचितसक्रिय इत्यर्थः । त्रिमूर्धद्विमूर्ध इव देवो यथा पञ्चशिराः सदाशिवो गीयते । यथा वा त्रिदशेश्वरी देवेन्द्रो गीयते । तथैण्या इव पादावस्यैणीपदं मृगशिर एवमजपदो मेषराशिः। स चाश्विनीभरणीकृत्तिकैकपादरूप इत्यश्विनी भरणी कृत्तिकाया एकपादश्वोच्यन्ते । तथा भद्राः पादा आसां भद्रंपदाः पूर्वभद्रपदा उत्तरभद्रपदाश्च द्वन्द्वे ता आदिर्येषां नक्षत्राणां तेषां राट् चन्द्रः। श्रिया संपूर्णकलादिलक्ष्म्या युक्तो य एणीपदाजपदभद्रपदादिराट् स यथा वा गीयते ॥ अशारिकुंक्षं चतुरैश्रवक्षःस्थलं स्वयं प्रोष्ठपदाधिपं नु । नमस्यतां तं रजनी ध्रुवं कल्याणी द्वितीया समभून्न कस्य ॥३॥ ३. तं भैमि नमस्यतां प्रणेमतां मध्ये कस्य नमस्यन्नरस्य रजनी प्रणामरात्रिध्रु(धु)वं न समभूत् । किंभूता । कल्याणी भैमेः प्रसत्त्या सद्यः सर्वसंपदुल्लासात्सर्वशुभहेतुर्द्वितीया प्रणामरानेरनन्तरा रात्रिर्यस्याः सा कल्याणीद्वितीया । किंभूतं त[म् ।] न शारेरिव स्थूल १सी वा श्रेणी. २ सी कुक्षिं च. ३ सी रस्रव. ४ एपदधि. .. १ एणी कृत्तिका'. २ सी का ए'. ३ ए भद्रापा. ४ सी द्रपाद उत्त'. ५ए णम्यतां. ६ सी °स्य रज. ७ सी निभावं. ८ सी व स्थलं कु.. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628