________________
[है. ७.३.१२५.] विंशः सर्गः।
सुप्रातसुश्वसुदिवस्त्रिदशेश्वरो वा
एणीपदाजपदभद्रपदादिराड्वा ॥२॥ .. २. स भैमिर्जाया भार्या प्रमाणी मुख्या यासां ता या जनता जनौघास्ताभिरगायि गीतः । यत उदात्तशक्तिरुद्भटप्रभुत्वादिशक्तित्रयस्तथा शोभनं कर्म प्रातः प्रभातेस्य सुप्रातस्तथा शोभनं कर्म श्वोस्य सुश्वस्तथा शोभनं कर्म दिवा यस्य सुदिवस्ततो विशेषणकर्मधारयः । सर्वदा न्याय्योचितसक्रिय इत्यर्थः । त्रिमूर्धद्विमूर्ध इव देवो यथा पञ्चशिराः सदाशिवो गीयते । यथा वा त्रिदशेश्वरी देवेन्द्रो गीयते । तथैण्या इव पादावस्यैणीपदं मृगशिर एवमजपदो मेषराशिः। स चाश्विनीभरणीकृत्तिकैकपादरूप इत्यश्विनी भरणी कृत्तिकाया एकपादश्वोच्यन्ते । तथा भद्राः पादा आसां भद्रंपदाः पूर्वभद्रपदा उत्तरभद्रपदाश्च द्वन्द्वे ता आदिर्येषां नक्षत्राणां तेषां राट् चन्द्रः। श्रिया संपूर्णकलादिलक्ष्म्या युक्तो य एणीपदाजपदभद्रपदादिराट् स यथा वा गीयते ॥
अशारिकुंक्षं चतुरैश्रवक्षःस्थलं स्वयं प्रोष्ठपदाधिपं नु । नमस्यतां तं रजनी ध्रुवं कल्याणी द्वितीया समभून्न कस्य ॥३॥
३. तं भैमि नमस्यतां प्रणेमतां मध्ये कस्य नमस्यन्नरस्य रजनी प्रणामरात्रिध्रु(धु)वं न समभूत् । किंभूता । कल्याणी भैमेः प्रसत्त्या सद्यः सर्वसंपदुल्लासात्सर्वशुभहेतुर्द्वितीया प्रणामरानेरनन्तरा रात्रिर्यस्याः सा कल्याणीद्वितीया । किंभूतं त[म् ।] न शारेरिव स्थूल
१सी वा श्रेणी. २ सी कुक्षिं च. ३ सी रस्रव. ४ एपदधि. ..
१ एणी कृत्तिका'. २ सी का ए'. ३ ए भद्रापा. ४ सी द्रपाद उत्त'. ५ए णम्यतां. ६ सी °स्य रज. ७ सी निभावं. ८ सी व स्थलं कु..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org