SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ ख्याश्रयमहाकाव्ये विंशः सर्गः। पद्माक्ष्य आततषडङ्गुलकृष्यरिक्था रन्तुं वनेष्वयुरथ श्रमजिह्मसक्थ्यः । निःशङ्कमूषुरिह शासति गां द्विमूर्धा कः कस्त्रिमूर्ध उत योपनयं विदध्यात् ॥ १॥ १. पद्माक्ष्यः स्त्रियः पुष्पोच्चयादिक्रीडया रन्तुं वनेष्वयुः । कीदृश्यः । आततं विस्तीर्ण यत्षडगुलं षडङ्गुलयो यस्य तदङ्गुलिसहशावयवं धान्यकण्टकादीनां विक्षेपणकाष्ठं तेन कृष्यमतिबहुत्वाकर्षणीयं रिक्थं धनं यासां ताः । अत्यन्तमीश्वर्य इत्यर्थः । अथ गमनानन्तरं श्रमजिह्मसक्थ्यः श्रान्ताः सत्यो वनेष्वेव निःशङ्कं निर्भयमूषुः । युक्तं चैतत् । यस्मादिहे भैमौ गां पृथ्वी शासति को द्विमू/ताथ वा कस्त्रि? योपनयं चौर्यलुण्टनाद्यना(द्यन्याय) विध्यात् । चण्डशासनत्वेनान्यायिनो मस्तकं ग्रहीतर्यस्मिन् यो द्विमूर्धा त्रिमूर्धा वा स्यात्स एवाहमस्यैक द्वे वा मस्तके दत्वैकेन शिरसा जीविष्यामीत्यभिप्रायेणान्यायं कुर्यादित्यर्थः ।। वसन्ततिलका ॥ जायाप्रमाणजनताभिरगायि स त्रि मूर्धद्विमूर्ध इव देव उदात्तशक्तिः । १ ए रिस्का र. २ सी °सक्थाः । नि'. ३ सी विध्यत्. १ सी डय र. २ सी क्षेणपाका. ३ सी ह भीमो गां. ४ सी घोथ'. ५ सी मूर्धा वा स्या'. ६ ए यो हि मू. ७ सी कं वा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003629
Book TitleDvyasrayakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1921
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy