Book Title: Dharmratna Prakaranam
Author(s): Punyavijay
Publisher: Sarabhai Manilal Nawab Ahmedabad

View full book text
Previous | Next

Page 277
________________ श्रीधर्मरत्नप्रकरणम् ॥१२॥ XXXREAKERACREAK ऽतिचारा एव, न पृथग्व्रतानि । बन्धादिग्रहणस्य चोपलक्षणत्वादपरेऽपि हिंस्रमन्त्रतन्त्रादयोऽतिचारतयाऽत्र द्रष्टव्याः। उक्तं सातिचारं प्रथममणुव्रतम् । अथ स्थूलमृषावादविरमणलक्षणं द्वितीयं तदुच्यते-तत्र स्थलः-परिस्थूरद्विपदादिवस्तुविषयोऽतिदुष्टविवक्षासमुद्भवः स चासौ मृषावादश्च-अनृताभिधानरूपः स्थूलमृषावादस्तस्य विरमणम् ,न तु सूक्ष्मस्य,तस्य महाव्रतविषयत्वात् । स च कन्यागोभूम्यलीकन्यासापहारकूटसाक्षित्वभेदात् किल पञ्चविधः । तत्र निदोषामपि कन्यां सदोषां व्यत्ययेन वा बदतः कन्यालीकम् । कन्यालीक चोपलक्षणमात्रं सर्वस्यापि द्विपदविषयालीकस्य । एवं गवालीकमपि भावनीयम, नवरमिदं चतुष्पदविषयस्य सर्वस्याप्यलीकस्योपलक्षणम् । परसकामप्यात्मादिसत्कां भुवं वदतो भूम्यलीकम् , इदं च सर्वस्याप्यपदविषयस्यालीकस्योपलक्षणम् । यद्येवं कन्यादिविशेषोपादानमुत्सृज्य सामान्येन द्विपदचतुष्पदापदग्रहणमेव कस्मान्न कृतम् । तदतिरिक्तवस्त्वभावेन सर्वसङ्ग्रहसिद्धा, सत्यम् , किन्तु कन्याद्यलीकानों लोकेऽतिगर्हितत्वाद्विशेषेण तद्वजेनार्थं तदुपादानम् । अत एव द्विपदादिविषयालीकतोऽन्यालीकासम्भवेऽपि लोकेऽतिगर्हिततया रूढत्वान्न्यासापहार-कूटसाक्षिकत्वे कन्यालीकत्वादिभ्यः पृथगुपात्त। ननु तथापि न्यासापहारस्यादत्तादानविषयत्वादिहोपादानमसंगतम्, सत्यम्, किन्त्वपलापवचनस्य मृपावादविषयत्वाददोषः। अत्रापि पञ्चातिचारा वर्जनीयाः, तद्यथासहसाभ्याख्यानं रहसाभ्याख्यानं खदारमन्त्रभेद: सपोपदेशः कूटलेख्यकरणं चेति। तत्र सहसा-अनालोच्य अभ्याख्यानम्असदोषाध्यारोपणम् , यथा--चौरस्त्वं पारदारिको वेत्यादि। ॥१२१॥ Jain Educalan a For Private & Personal Use Only Painelibrary.org

Loading...

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340