Book Title: Dharmratna Prakaranam
Author(s): Punyavijay
Publisher: Sarabhai Manilal Nawab Ahmedabad

View full book text
Previous | Next

Page 279
________________ श्रीधर्मरत्नप्रकरणम् कृतव्रतज्ञानाख्य लक्षणम् ॥१२२॥ उक्तं सातिचार द्वितीयमणुव्रतम् । अथ स्थूलादत्तादानविरमणलक्षणं तृतीयमुच्यते-तत्र चौर्यारोपणहेतुतया प्रसिद्ध स्थूलं इन्धननीरणधान्यादि, न तु कर्णशोधनशलाकादि, तच्च तददत्तं च तस्यादानं-ग्रहणं तस्य विरमणं स्थूलादत्तादानविरमणम् । इदं च सचेतनाचेतनमिश्रवस्तुविषयत्वात् त्रिधा । अत्रापि पश्चातिचारा वर्जनीयाः, तद्यथा-स्तेनाहृतं तस्करप्रयोगो विरुद्धराज्यगमनं, कूटतुलाकूटमानकरणं तत्प्रतिरूपव्यवहारश्चेति । तत्र स्तेनैः-चौरैराहृतं-आनीतं कुङ्कुमादि स्तेनाहृतम् , इदं लोभदोषात् काणक्रयेण गृहंश्चौरो व्यपदिश्यते । यदाहचौरश्चौरापको मन्त्री, भेदज्ञः, काणकक्रयी। अन्नदः स्थानदश्चैव चौरः सप्तविधः स्मृतः॥ तदित्थं चौर्यकरणाद् व्रतभङ्गः 'वाणिज्यमेव मया विधीयते न चौर्यम्' इत्यध्यवसायतो व्रतनिरपेक्षत्वाभावादभङ्ग इत्युभयरूपत्वादतिचारता। तस्कराः-चौरा एव तेषां प्रयोजनं प्रयोगः-'किमिदानीं निर्व्यापारास्तिष्ठथ यूयम् यदि शम्बलादिकं नास्ति भवतां तदा तदहं प्रयच्छामि, युष्मदानीतमोषस्य यदि विक्रायको न कश्चिदस्ति तदाहं विक्रेष्ये, गच्छत चौर्यार्थ यूयम्' -इत्यादिवचनैश्चौराणां स्तेयक्रियायां व्यापारणमित्यर्थः । अत्रापि भङ्गसापेक्षनिरपेक्षताभ्यामतिचारता भावनीयेति । विरुद्धः-निजदेशस्वामिनःप्रतिपन्थी तस्य राज्यं-कटकं देशो वा विरुद्धराज्यम् । तत्र निजस्वामिनो निषेधवचनमतिलय क्रमणं विरुद्धराज्यातिक्रमः । अयं च अद्यापि स्वस्वामिनोऽननुज्ञातस्य परकटकादिप्रवेशस्य ॥१२२॥ Jain Educati For Private Personel Use Only Alainelibrary.org

Loading...

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340