Book Title: Dharmratna Prakaranam
Author(s): Punyavijay
Publisher: Sarabhai Manilal Nawab Ahmedabad
View full book text
________________
"सामीजीवादिन, तित्थयरेणं तहेव य गुरूहिं । एयस्स उ जा विरई, अदिन्नदाणस्स सा विरई ॥" इत्यदत्तादानलक्षणयोगाद् विरुद्धराज्यातिक्रमकारिणां चौर्यदण्डयोग्यतावाप्तेश्चादत्तादानरूपत्वाद् भङ्ग एव तथापि 'वाणिज्यमेवेदं मया कृतं न चौर्यम्' इति भावनया व्रतनिरपेक्षत्वाभावाल्लोके चौरोऽयमिति व्यपदेशाभावाच्च अतिचारता।।
कूटतुलाकूटमानयोर्व्यवस्थापेक्षया न्यूनाधिकयोः करणं कूटतुलाकूटमानकरणम् । तेन प्रस्तुतेन कुङ्कुमादिना प्रतिरूपं-सदृशं कुसुम्भादि प्रक्षिप्यते यत्र व्यवहारे स तत्मतिरूपो व्यवहारः, अथवा तत्प्रतिरूपेण-सहजकर्पूरादिसदृशेन कृत्रिमकर्पूरादिना यो व्यवहारः स तत्प्रतिरूपव्यवहारः। एतौ च कूटतुलाकूटमानतत्प्रतिरूपव्यवहारौ यद्यपि वञ्चनापरिणामेन परधनग्रहणरूपतया व्रतभङ्गरूपौ, तथापि 'क्षत्रखननादिकमेव चौर्यम् , इदं तु वणिकलोपजीवनमेव' इति स्वकीयकल्पनामात्रमपेक्ष्यातिचारतयोक्ताविति ।
उक्तं सातिचारं तृतीयाणुव्रतम् ।। अथ परदारविरमणं खदारसन्तोषलक्षणं चतुर्थमणुव्रतमुच्यते-तत्र परे-आत्मीयव्यतिरिक्ताः पुरुषाः तथा मनुष्यजात्यपेक्षया देवास्तियश्चश्च तेषां दाराः-परिणीतसंगृहीतभेदानि नारीरूपाणि कलत्राणि देव्यस्तिरभ्यश्चेति परदाराः तेषां विरमणं वर्जनम् । यद्यप्यपरिगृहीता देव्यस्तिरभ्यश्च काश्चित् संगृहीतुः परिणेतुः कस्यचिदभावाद्वेश्याकल्पा एव भवन्ति तथापि परजातीयभोग्यत्वात् परदारा एवेति वर्जनीयाः । तथा खदारैः सन्तोषः-यथा परकलत्रं तथा वेश्यामपि वर्जयित्वा स्वदौरैरेव कश्चित् सन्तुष्यतीत्यर्थः । उपलक्षणत्वाद् योषितां स्वभर्तृव्यतिरिक्तस्य सामान्यतः पुरुषमात्रस्य वर्जनमित्यपि द्रष्टव्यम् ।
अत्रापि पञ्चातिचारा वर्जनीयाः, तद्यथा
&
&&
&&&&
JainEducation TYMYH
For Private Personal Use Only
ainelibrary.org

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340