Book Title: Dharmratna Prakaranam
Author(s): Punyavijay
Publisher: Sarabhai Manilal Nawab Ahmedabad

View full book text
Previous | Next

Page 328
________________ भवियव्ययानिओगा, विचित्तयाए य कम्मपगिईए । माया जाया जाया, पुत्तो भत्ता य संजाओ ॥३४॥ तक्कम्मविवागणं, बंधुमई पाविया करच्छेयं । पत्तो य बंधुदत्तो, सूलापक्खिवणवसणमिणं ॥३५॥ इय सोउं रइसारो, सिट्ठी संजायगरुयसंवेओ । गिहिय गुरूण पासे, दिक्खं सुहभायणं जाओ ॥३६॥ इत्युद्भट वेषमतिश्रयन्त्याः , श्रुत्वा विपाकं खलु बन्धुमत्याः। भव्या जना ! निर्मलशीलभाजस्तद्धत्त देशाद्यविरुद्धमेनम् ॥३७॥ ॥ इति बन्धुमतीज्ञातम् ॥ इत्युक्तः शीलवतोऽनुद्भटवेष इति तृतीयो भेदः। सम्प्रति सविकारवचनवर्जनरूपं चतुर्थभेदं व्याचिख्यासुर्गाथोत्तरार्द्धमाह सवियारजंपियाई, नृणमुईरंति रागगि ॥४०॥ 'सविकारजल्पितानि' सशृङ्गारभणितानि 'नूनं निश्चितम् 'उदीरयन्ति' उद्दीपयन्ति रागाग्निम्, अतस्तानि न ब्रूते इति शेषः। उक्तं चजं सुणमाणस्स कहं, सुठ्ठयरं जलइ माणसे मयणो । समणेण सावरण वि, न सा कहा होइ कहियव्वा ॥१॥ उपलक्षणं चैतत्, द्वेषानलमप्युद्दीपयन्ति केषाश्चिदिति, अतोऽनर्थदायकानि मित्रसेनस्येव सविकारजल्पितानि न भाषणीयानि । मित्रसेनकथा त्वियम्आसीत् पुर्यामयोध्यायामयोध्यायामरातिभिः । धर्मकर्मणि निस्तन्द्रो, जयचन्द्रो महीपतिः ॥१॥ Jain Education For Private Personel Use Only Jainelibrary.org

Loading...

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340