Book Title: Dharmratna Prakaranam
Author(s): Punyavijay
Publisher: Sarabhai Manilal Nawab Ahmedabad
View full book text
________________
श्रीधर्मरत्नप्रकरणम्
॥१४६॥
Jain Educatio
शृङ्गारसारभाषित्वमेवमुक्तोऽपि नोज्झति । यदा केलिप्रियत्वेन, तदा राज्ञाऽप्युपेक्षितः ॥ २९ ॥ प्रोषितभर्तृस्त्रियोऽग्रे, सविकारगिरोऽन्यदा । स तथाऽऽख्यद्यथा सद्यः, साऽभून्मदनविह्वला ॥ ३० ॥ तां तथासविकाराङ्गीं, दृष्ट्वा तद्देवरः क्रुधा । तं बबन्ध दृढैर्बन्धै रे विटोऽसीत्युदीरयन् ॥ ३१ ॥ तदाकर्ण्य नृपो मधु, मोचयित्वा तमाख्यत । व्रतातीचारवृक्षस्य, पुष्पं प्राप्तमिदं त्वया ॥ ३२ ॥ फलं तु नरके घोरे, लप्स्यसे तीव्रवेदनां । यत्तदा वारितोऽसि त्वं नातिचारादुपारमः ॥ ३३ ॥ जिनं देवं गुरून् साधूंस्तदद्यापि सखे ! स्मर । गर्हस्व दुष्कृतं सर्व, क्षमय प्राणिसंहतिम् ॥ ३४ ॥ सोsपि प्राह सखे ! गाढं, बन्धनैः पीडितोऽस्म्यहं । न स्मरामि ततः किञ्चित् प्रतीकारं कुरुष्व मे ॥ ३५ ॥ इति जल्पन्नसौ मृत्वा, गजोऽभूद्विन्ध्यभूधरे । ततो बहुं भवं भ्रान्त्वा, क्रमान्मोक्षमवाप्स्यति ॥३६ ॥ सविकारवचोवार्द्धिकुम्भभूवन्द्र भूपतिः । राज्यं न्यस्य सुते दीक्षां गृहीत्वा च ययौ शिवम् ॥ ३७ ॥ इत्यवेत्य कृतिनः स्वचेतसा, मित्रसेनचरितं गतांहसः । चश्चदुच्चतरदुःखलक्षितं, सन्त्यजन्तु सविकारजल्पितम् ॥ ३८ ॥ ॥ इति मित्रसेनकथा ||
इत्युक्तः शीलवतः सविकारवचनवर्जन इति चतुर्थो भेदः । सम्प्रति बालक्रीडापरिहाररूपं पश्ञ्चमं भेदमभिधित्सुर्गाथापूर्वार्द्धमाहबालिसजणकीला वि हु, लिंगं मोहस्स णत्थदंडाओ ।
For Private & Personal Use Only
सविकारवचनवर्जनम्
४
तत्र मित्र
| सेनकथा.
॥१४६॥
www.jainelibrary.org

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340