Book Title: Dharmratna Prakaranam
Author(s): Punyavijay
Publisher: Sarabhai Manilal Nawab Ahmedabad
View full book text
________________
सुर्गाथोत्तरार्द्धमाह
फरुसवयणाभिओगो, न सम्मओ सुद्धधम्माणं ॥ ४१ ॥ 'परुषवचनेन' रे दरिद्र ! दासीपुत्र ! इत्यादिना 'अभियोगः आज्ञादानं 'न संगतः' नोचितः 'शुद्धधर्माणां' प्रतिपन्नजिनमतानाम् , धर्महानिधर्मलाघवहेतुत्वात् ।
तत्र धर्महानिःफरुसवयणेण दिणतव-महिक्खिवन्तो य हणइ मासतवं । वरिसतवं सवमाणो, हणइ हणंतो य सामणं ॥ इति वचनात् ।
धर्मलाघवं पुनः "अहो ! धार्मिकाः परपीडापरिहारिणः सविवेकाश्च श्रावका यदेवं ज्वलदङ्गारोत्कराकारा गिरो गिरन्ति" इत्यादि लोकोपहासात् ।
तथाअप्रियमुक्ताः पुरुषाः, प्रवदन्ति द्विगुणमप्रियं यस्मात् । तस्मान्न वाच्यमप्रियमप्रियमश्रोतुकामेन ॥१॥ विरज्यते परिवारो, नित्यं कर्कशभाषिणः । परिग्रहे विरक्ते च, प्रभुत्वं हीयते नृणाम् ॥२॥
किश्चअशिक्षितात्मवर्गेण, म्लानिं याति यतः प्रभुः । अतः शिक्षा प्रदातव्या, प्रत्यहं मृदुभाषया ॥३॥ स्वाधीने माधुर्ये, मधुराक्षरसम्भवेषु वाक्येषु । किं नाम सत्त्ववन्तः, पुरुषाः परुषाणि भाषन्ते ॥ ४॥ इत्यादि ।
ARXXXXXXXXX***&&&
&&
an Education
&&
For Private
Personal Use Only
Luinelibrary.org

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340