Book Title: Dharmratna Prakaranam
Author(s): Punyavijay
Publisher: Sarabhai Manilal Nawab Ahmedabad

View full book text
Previous | Next

Page 330
________________ अतिसंक्लिष्टचित्ताख्या, तत्र निर्वहणी पृथुः। अतिद्राधीयसी कुल्या, भोगलोलुपताभिधा ॥१६॥ क्षेत्रं विवक्षितं जन्ममालादुःखस्य संहतिः । अपरापरजन्माख्याः, केदारा गणनातिगाः ॥१७॥ पानान्तिकस्त्वसद्बोधो, बीजं कर्मकदम्बकम् । दुष्टो जीवपरीणामो, वापकस्तत्र सोद्यमः ॥१८॥ ततश्चउप्तं तेनारघटेन, सिक्तं निष्पत्तिमागतम् । प्रभूतसुखदुःखादिसस्यं नानाविधं नृप ! ॥१९॥ एवं भवारघट्टातिभ्रमणोद्भीतचेतसा । दीक्षा तद्भयघाताय, मयाऽऽदायि नरेश्वर ! ॥२०॥ श्रुत्वेति नृपतिर्भामभवाद् भीतमना भृशम् । न्यस्य चन्द्रसुते राज्यं, शमसाम्राज्यमाददे ॥२१॥ समित्रश्चन्द्रराजोऽपि, राजन् ! राज्यश्रिया तया । सम्यग्दर्शनसंशुद्धं, गृहिधर्ममशिश्रियत् ॥२२॥ नत्वा गुरुपदद्वन्द्व, निजं धाम जगाम राट् । अन्यत्र मुनिराजोऽपि, विजन्हे सपरिच्छदः ॥२३॥ अन्यदा मित्रसेनेन, राजाऽभाणि रहस्यदः। किमप्यपूर्व विज्ञानं, दर्शयामि सखे! तव ॥ २४ ॥ स प्राह दर्शय क्षिप्रं, ततोऽसौ जम्बुकस्वरम् । तथाऽरसद् यथा रेसुः, पूर्वहिर्जम्बुका अपि ॥ २५ ॥ कुकूजुः कुक्कुटा उच्चैः, कृते कुक्कुटकूजिते । निशीथेऽपि निशाप्रान्तमुन्निद्रा मेनिरे जनाः ॥ २६ ॥ तथा शृङ्गारसाराणि, वाक्यान्याह यथा जनः । दृढशीलोऽपि जायेत, मन्मथोन्माथितो भृशम् ॥ २७ ॥ ततो राजाऽऽह मित्रैवं, माऽतिचारीनिजं व्रतम् । यद्विकारवचो वक्तुं, न युक्तं शीलशालिनाम् ॥ २८ ॥ SSNEHR& AMARRENORRRCH Jain Education in For Private Personel Use Only linelibrary.org

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340