Book Title: Dharmratna Prakaranam
Author(s): Punyavijay
Publisher: Sarabhai Manilal Nawab Ahmedabad
View full book text
________________
श्री धर्मरत्नप्रकरणम्
॥१४५॥
Jain Education I
तस्य प्रियतमा चारुदर्शना प्रियदर्शना । सनुश्वानूनपुण्यश्री चन्द्रश्चन्द्रसदृग्यशाः ॥२॥ शृङ्गारबहुलः श्येनपुरोहिततनूद्भवः । तन्मित्रं मित्रसेनोऽभूत् केलिकौतूहलप्रियः ||३|| एकदा तत्पुरोधाने, दुयनेिन्धनपावकः । आगादागाम्यतीतादिवेदी सूरिर्युगन्धरः ॥४॥ तं नन्तुं दन्तुरानन्दोद्भिन्नरोमाञ्चकञ्चुकः । जगाम जगतीनाथः, स मित्रसुतसंयुतः ||५|| राजा निष्प्रतिमं रूपं दृष्ट्वा तस्य मुनीशितुः । पप्रच्छ स्वच्छधीरेवं, विस्मयस्मेरलोचनः ||६|| सत्यप्यसदृशे रूपे, साम्राज्य विभवोचिते । कुतो वैराग्यतः पूज्यैर्जगृहे दुष्करं व्रतम् ? ॥७॥ गुरुराह मया दृष्टः, सोsरघट्टो नराधिप ! । सदा युक्तो वहन्नित्यं सम्पूर्णो भवनामकः ॥८॥ चत्वारो रागविद्वेषमिथ्यात्वस्मरसंज्ञिताः । दृढाः सारथयस्तत्र, मोहः सीरपतिः पुनः ॥९॥ विनाऽपि चारिवारिभ्यां, सबला वेगशालिनः । महाकायाः कषायाख्या, वृषभास्तत्र षोडश ॥ १० ॥ हास्यशोकभयाद्यास्तु, कर्कशाः कर्मकारकाः । जुगुप्सारत्यरत्याद्यास्तेषां च परिचारकाः ॥११॥ दुष्टयोगप्रमादाख्यं तत्र तुम्बद्वयं महत् । विलासोल्लासबिब्बोकहावभावादिकास्त्वराः ॥ १२॥ तत्रासंयतजीवाख्यः, कूपोऽदृष्टतलः सदा । पापाविरतिपानीय सम्भारपरिपूरितः ॥ १३॥ पापाविरतिनीरौघमग्नपूरितरेचितम् । सुदीर्घं जीवलोकाख्यं, घटीयन्त्रमभङ्गुरम् ||१४|| षट्कार उच्चकैर्मृत्युरज्ञानं तु प्रतीच्छकः । दृढं मिथ्याभिमानाख्यं तस्य दार्पटिकं सदा ||१५||
For Private & Personal Use Only
सविकारवचनवर्जनम्
४
तत्र मित्रसेनकथा.
॥१४५॥
nelibrary.org

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340