Book Title: Dharmratna Prakaranam
Author(s): Punyavijay
Publisher: Sarabhai Manilal Nawab Ahmedabad
View full book text
________________
श्रीधर्मरत्न - प्रकरणम्
॥ १२६॥
Jain Education
मूला तह भूमिरुहा, विरुहाईं ढक्कवत्थुलो पढमो । सूयरवल्लो य तहा पल्लको कोमलंबिलिया ॥ आलुय तह पिंडालु, समभंगमहीरुगाइ लक्खणओ । जाणेज्जऽणंतकायं अन्नं पि जिणेहि निद्दिहं ॥ " इति समयोक्तानन्तकायान् बहुबीजानि मांसादिकं च वर्जयति ।
पाने - मांसरसमित्यादि, खादिमे - वटपिप्पलोदुम्बरप्लक्षकाकोदुम्बरफलानि समये पञ्चोदुम्बरीत्याख्यया प्रसिद्धानि नियमयति, स्वादिमेतु - मध्वादि, शेषेऽप्यल्पसावद्ये ओदनादावचित्तभोजित्वादिकं परिमाणनैयत्यं विधेयम् । अत्यन्तचेतोगृद्धयुन्मादापवादादिजनकं वस्त्रवाहनालङ्कारादिकं वर्जयेत्, शेषेऽपि माननियतता कार्येति ।
कर्मतोऽपि श्राद्धेन तावत् कर्म न किश्चित् कर्त्तव्यम्, निरारम्भतयैव स्थातव्यम् । अथैवं न निर्वहति तदा निस्त्रिंशजनोचितानि बहुसावद्यानि - कोट्टपाल - गुप्तिपालादिकर्मलक्षणानि खरकर्माणि - हलमुशलोदूखलशस्त्रलोहविक्रयादिलक्षणानि च वर्जयित्वा अल्पसाव - द्यमेव कर्म विदधाति ।
अत्रापि भोजनतः पञ्चातिचारा वर्जनीयाः । तद्यथा -
सचित्ताहारे सचित्तपडिबद्धाहारे अप्पोलिओसहिभक्खणया दुप्पोलिओसहिभक्खणया तुच्छोसहिभक्खणया ।
एते च प्रत्याख्यातसचित्तस्याचित्तभोजिनोऽतिचारा द्रष्टव्याः । अस्य चानाभोगातिक्रमादिना कन्दादिसचित्तस्याहारोऽतिचारः । तथा सचित्ते आग्रगोधिकादौ प्रतिबद्धं पक्कत्वगादीति गम्यते, मुखे प्रक्षिप्य पक्वत्वगाद्येवाचितं भक्षयिष्यामि सचित्तं त्वगस्थिकं त्यक्षामीति बुद्ध्या सचितप्रतिबद्धस्याहारोऽतिचारः, व्रतसापेक्षत्वात् ।
For Private & Personal Use Only
कृतव्रतज्ञानाख्यं लक्षणम्
२
॥१२६॥
Jainelibrary.org

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340