Book Title: Dharmratna Prakaranam
Author(s): Punyavijay
Publisher: Sarabhai Manilal Nawab Ahmedabad
View full book text
________________
श्रीधर्मरत्नप्रकरणम्
॥१३०॥
तस्यातिथेः संगतः - निर्दोषो न्यायागतानां कल्पनीयानां वस्तूनां श्रद्धासत्कारादिक्रमयुक्तः पश्चात्कर्मपरिहारार्थं विशिष्टो भागःअंशः अतिथिसंविभागः ।
अस्यापि पञ्चातिचाराः, तद्यथा
सचित्तनिक्षेपः सचित्तपिधानं कालातिक्रमः परव्यपदेशः मत्सरिकता चेति ।
तत्र सचित्ते - पृथिव्यादौ साधुदेयस्य वस्तुनो निक्षेपः-स्थापनं सचित्तनिक्षेपः, तस्यैव सचित्तेन - कूष्माण्डफलादिना पिधानं सचित्तपिधानम्, कालस्य - साधूचितभिक्षासमयस्यातिक्रमः - अदित्सयाऽनागतभोजनपश्चाद्भोजनादिद्वारेणोल्लङ्घनं कालातिक्रमः । परस्य- आत्मव्यतिरिक्तस्य व्यपदेशः - स्वकीयेऽपि साधूचितवस्तुन्यदित्सयैव 'परसत्कमिदं न मदीयम्' इति साधुसमक्षं भणतः परव्यपदेशः ।
मत्सरः - असहनं साधुभिर्याचितस्य कोपनम्, अथवा 'असौ कश्चिद् रङ्कमात्रोऽपि ददाति, अहं तु किं ततोऽपि हीनः' इत्याद्यहङ्काररूपो मत्सरः सोऽस्यास्तीति मत्सरिकस्तद्भावो मत्सरिकता ।
तदेवमुक्तानि लेशतो द्वादशापि श्रावकत्रतानि । विस्तरतस्त्वावश्यकादिभ्योऽवसेयानि ।
तदेवंविधान् व्रतानां भेदानतिचारांश्च विजानाति, व्रतपरिज्ञानस्य चेहोपलक्षणत्वात्तपः संयमफलाद्यपि जानाति, तुङ्गिकानगरी श्रावकसमुदायवत् ।
Jain Education International
तद्दृष्टान्तश्चैवम्—
For Private & Personal Use Only
कृतव्रतज्ञानाख्यं लक्षणम्
२
॥१३०॥
www.jainelibrary.org

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340