Book Title: Dharmratna Prakaranam
Author(s): Punyavijay
Publisher: Sarabhai Manilal Nawab Ahmedabad
View full book text
________________
BXXXXXXXXXXXXXXXXXXXX
अस्यापि पश्चातिचारा वर्जनीयाः, तद्यथाअप्रत्युपेक्षितदुष्प्रत्युपेक्षितशय्यासंस्तारकः अप्रमार्जितदुःप्रमार्जितशय्यासंस्तारकः अप्रत्युपेक्षितदुष्प्रत्युपेक्षितोच्चारमश्रवणभूमी, अप्रमार्जितदुष्प्रमार्जितोचारप्रश्रवणभूमी पौषधस्य च सम्यगननुपालनमिति ।
पञ्चाप्येते स्पष्टाः। नवरमप्रत्युपेक्षितं-दृष्ट्या अनिरीक्षितम् , तयैव प्रमादितया सम्यगविलोकितं दुष्प्रत्युपेक्षितमुच्यते। अप्रमार्जितं रजोहरणादिना अशोधितम् , दुष्प्रमार्जितं च तेनैव सम्यगशोधितम् ।
ननु पौषधिकस्य किं रजोहरणमस्ति ? अस्तीति ब्रूमः, यतः सामायिकसामाचारी भणता आवश्यकचूर्णिकृतोक्तम्"साहूणं सगासाओ रयहरणं निसिजं वा मग्गइ । अह घरे तो से उवग्गहियं स्यहरणमत्थि त्ति ।" शयनं शय्या-तदर्थः संस्तारकः शय्यासंस्तारकः ।
पौषधस्य च सम्यगननुपालनं तदा भवति यदा उपोषितोऽपि चेतसा आहारं प्रार्थयते, पारणके वा आत्मार्थमाहारं कारयति, शरीरे वा केशरोमादिसंस्थापनोद्वर्तनादीनि शृङ्गारबुद्ध्या करोति, अब्रह्म सावधव्यापारं च कश्चिद् मनःप्रभृतिभिः सेवत इति ।
अथातिथिसंविभागलक्षणं चतुर्थं शिक्षाव्रतमुच्यतेतत्र तिथिपदिलौकिकव्यवहारत्यागाद् भोजनकालोपस्थायी श्रावकस्यातिथिः साधुरुच्यते ।
तदुक्तम्तिथिपर्वोत्सवाः सर्वे, त्यक्ता येन महात्मना । अतिथिं तं विजानीयाच्छेषमभ्यागतं विदुः॥
&&&&&&&&&&&&&&&XXEX
Jain Education
!
For Private & Personel Use Only
Killainelibrary.org

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340