SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ BXXXXXXXXXXXXXXXXXXXX अस्यापि पश्चातिचारा वर्जनीयाः, तद्यथाअप्रत्युपेक्षितदुष्प्रत्युपेक्षितशय्यासंस्तारकः अप्रमार्जितदुःप्रमार्जितशय्यासंस्तारकः अप्रत्युपेक्षितदुष्प्रत्युपेक्षितोच्चारमश्रवणभूमी, अप्रमार्जितदुष्प्रमार्जितोचारप्रश्रवणभूमी पौषधस्य च सम्यगननुपालनमिति । पञ्चाप्येते स्पष्टाः। नवरमप्रत्युपेक्षितं-दृष्ट्या अनिरीक्षितम् , तयैव प्रमादितया सम्यगविलोकितं दुष्प्रत्युपेक्षितमुच्यते। अप्रमार्जितं रजोहरणादिना अशोधितम् , दुष्प्रमार्जितं च तेनैव सम्यगशोधितम् । ननु पौषधिकस्य किं रजोहरणमस्ति ? अस्तीति ब्रूमः, यतः सामायिकसामाचारी भणता आवश्यकचूर्णिकृतोक्तम्"साहूणं सगासाओ रयहरणं निसिजं वा मग्गइ । अह घरे तो से उवग्गहियं स्यहरणमत्थि त्ति ।" शयनं शय्या-तदर्थः संस्तारकः शय्यासंस्तारकः । पौषधस्य च सम्यगननुपालनं तदा भवति यदा उपोषितोऽपि चेतसा आहारं प्रार्थयते, पारणके वा आत्मार्थमाहारं कारयति, शरीरे वा केशरोमादिसंस्थापनोद्वर्तनादीनि शृङ्गारबुद्ध्या करोति, अब्रह्म सावधव्यापारं च कश्चिद् मनःप्रभृतिभिः सेवत इति । अथातिथिसंविभागलक्षणं चतुर्थं शिक्षाव्रतमुच्यतेतत्र तिथिपदिलौकिकव्यवहारत्यागाद् भोजनकालोपस्थायी श्रावकस्यातिथिः साधुरुच्यते । तदुक्तम्तिथिपर्वोत्सवाः सर्वे, त्यक्ता येन महात्मना । अतिथिं तं विजानीयाच्छेषमभ्यागतं विदुः॥ &&&&&&&&&&&&&&&XXEX Jain Education ! For Private & Personel Use Only Killainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy