SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ श्रीधर्मरत्नप्रकरणम् ॥१३०॥ तस्यातिथेः संगतः - निर्दोषो न्यायागतानां कल्पनीयानां वस्तूनां श्रद्धासत्कारादिक्रमयुक्तः पश्चात्कर्मपरिहारार्थं विशिष्टो भागःअंशः अतिथिसंविभागः । अस्यापि पञ्चातिचाराः, तद्यथा सचित्तनिक्षेपः सचित्तपिधानं कालातिक्रमः परव्यपदेशः मत्सरिकता चेति । तत्र सचित्ते - पृथिव्यादौ साधुदेयस्य वस्तुनो निक्षेपः-स्थापनं सचित्तनिक्षेपः, तस्यैव सचित्तेन - कूष्माण्डफलादिना पिधानं सचित्तपिधानम्, कालस्य - साधूचितभिक्षासमयस्यातिक्रमः - अदित्सयाऽनागतभोजनपश्चाद्भोजनादिद्वारेणोल्लङ्घनं कालातिक्रमः । परस्य- आत्मव्यतिरिक्तस्य व्यपदेशः - स्वकीयेऽपि साधूचितवस्तुन्यदित्सयैव 'परसत्कमिदं न मदीयम्' इति साधुसमक्षं भणतः परव्यपदेशः । मत्सरः - असहनं साधुभिर्याचितस्य कोपनम्, अथवा 'असौ कश्चिद् रङ्कमात्रोऽपि ददाति, अहं तु किं ततोऽपि हीनः' इत्याद्यहङ्काररूपो मत्सरः सोऽस्यास्तीति मत्सरिकस्तद्भावो मत्सरिकता । तदेवमुक्तानि लेशतो द्वादशापि श्रावकत्रतानि । विस्तरतस्त्वावश्यकादिभ्योऽवसेयानि । तदेवंविधान् व्रतानां भेदानतिचारांश्च विजानाति, व्रतपरिज्ञानस्य चेहोपलक्षणत्वात्तपः संयमफलाद्यपि जानाति, तुङ्गिकानगरी श्रावकसमुदायवत् । Jain Education International तद्दृष्टान्तश्चैवम्— For Private & Personal Use Only कृतव्रतज्ञानाख्यं लक्षणम् २ ॥१३०॥ www.jainelibrary.org
SR No.600153
Book TitleDharmratna Prakaranam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSarabhai Manilal Nawab Ahmedabad
Publication Year
Total Pages340
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy