________________
श्रीधर्मरत्न
कृतव्रतज्ञानाख्य
प्रकरणम्
लक्षणम्
॥१२९॥
8888888888&&&&&&&&&
इदमत्र तात्पर्यम्साधूपाश्रयादौ नियतदेशे वर्तमानः कृतसंक्षिप्ततरदिक्परिमाणो यदा स्वयं व्रतभङ्गभयादगच्छन्नपरस्य पार्थात् सन्देशकादिना विवक्षितवस्तुन आनयनप्रयोगं करोति । तथा प्रेष्यस्य-आदेश्यस्य केनापि प्रयोजनेन विवक्षितक्षेत्राद् बहिः प्रयोग-व्यापारणं करोति । तथा विवक्षितक्षेत्राद् बहिःस्थितं कश्चन दृष्ट्वा व्रतभङ्गभयात्साक्षात्तमाह्वातुमशक्नुवन् व्याजेन तस्याकारणार्थ खकीयशब्दस्य-काशितादेः रूपस्य च-निजाकारस्थानुपातनं करोति । तथा विवक्षितजनस्याकारणार्थमेव नियमविषयीकृतक्षेत्राद् बहिः पुद्गलस्य-लेष्टुकादेः प्रक्षेपं करोति तदा देशावकाशिकव्रतमतिचरति ।
इदं हि 'मा भूद् गमनागमने जीवघातादिसमारम्भः' इत्यभिप्रायेण क्रियते । स च स्वयं कृतोऽन्येन वा कारित इति न कश्चितत्त्वतो विशेषः, प्रत्युत स्वयं च गमने गुणः ईर्यापथादिविशुद्धः, परस्य त्वनिपुणत्वात् कुतस्तच्छुद्धिः इति । | इदं तावद् दिक्परिमाणस्यैव संक्षेपकरणं दर्शितम् , तञ्चोपलक्षणमात्रम् , शेषाणामपि स्थूलपाणातिपातादिवतानां संक्षेपोऽत्रैव द्रष्टव्यः, अन्यथा तत्संक्षेपस्यापि दिनमासादिष्ववश्यं कर्त्तव्यत्वाद् व्रताधिक्यप्राप्ादशव्रतसङ्ख्या विशीर्येतेति ।
अथ पौषधलक्षणं तृतीयं शिक्षाव्रतमुच्यतेतत्र पोषं-पुष्टिं प्रक्रमाद्धर्मस्य धत्ते-करोतीति पौषधः-अष्टमीचतुर्दशीपौर्णमास्यमावास्यापर्वदिनानुष्ठयो व्रतविशेषः।
अयं चाहारशरीरसत्कारब्रह्मचर्याव्यापारपौषधभेदाच्चतुर्विधः । पुनरपि प्रत्येकं द्विधा—देशतः सर्वतश्च । अस्मिन्नङ्गीकृते आहारशरीरसत्कारयोर्देशतः सर्वतो वा परिहारः कर्त्तव्यः, ब्रह्मचर्याव्यापारयोस्तु देशतः सर्वतो वा आसेवनं विधेयमिति भावः ।
BISEXEEEEEEEEEXXXXXX
॥१२९॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org