________________
SEXEEEEEEEEEEEEXXXXXBOO
यत उक्तं परममुनिभिः"सावज्जजोगप्परिवज्जणट्ठा, सामाइयं केवलियं पसत्थं । गिहत्थधम्मा परमं ति नचा, कुज्जा बुहो आयहियं परत्था ।
सामाइयम्मि उ कए, समणो इव सावओ हबइ जम्हा । एएण कारणेणं, बहुसो सामाइयं कुज्जा ॥" अस्यापि पश्चातिचारा वर्जनीयाः।
तत्र मनोवाकायदुष्प्रणिधानलक्षणास्त्रयः । मनःप्रभृतीनां च दुष्प्रणिधानम्-अनाभोगादिना सावधचित्तादिषु प्रवर्तनम् , तथा स्मृत्यकरणं सामायिकस्यानवस्थितस्य करणं च ।।
तत्र स्मृतेरकरणं प्रबलप्रमादान्नैवं स्मरति यदुतास्यां वेलायां सामायिक कर्त्तव्यं कृतं न कृतं वेति, स्मृतिमूलं च मोक्षानुष्ठानमिति। यस्तु करणानन्तरमेव त्यजति यथाकथश्चिद् वाऽनादृतः तत् करोति तस्यानवस्थितसामायिककरणमुच्यते ।
उक्तं च"सामइयं काऊणं, घरचितं कुणइ जंपइ जहिच्छं । अनियंतिओ य देहेण, निष्फलं तस्स सामइयं ॥” इत्यादि। अथ देशावकाशिकलक्षणं द्वितीय शिक्षाव्रतमुच्यते
तत्र दिग्व्रते गृहीतस्य सविस्तरदिप्रमाणस्य देशे संक्षिप्तविभागे अवकाशः-अवस्थानं देशावकाशस्तेन निवृत्तं देशावकाशिकम् , बहुतरदिपरिमाणसङ्कोचरूपमिति भावः।
अत्रापि पश्चातिचारा वर्जनीयाः, तद्यथा-आनयनप्रयोगः प्रेष्यप्रयोगः शब्दानुपातो रूपानुपातो बहिःपुद्गलप्रक्षेप इति ।
Jain Education ! XXXII
For Private Personel Use Only
Jainelibrary.org